Wednesday, May 15, 2019

Vaachala-Sanskrit essay


*वाचालः।*

अधिकव्यर्थभाषकः इत्यर्थः। वाचालुता व्यवहारे गर्ह्यते। शास्त्रेष्वपि निन्दनं प्राप्नोति। शब्दिकव्यवहारः मनुष्यस्य इतरप्राणिभ्यः विशेषता। तथापि देवदत्तः निधिरेषः अविचार्यैव व्ययीकरोति वाचालुः। तस्याधिकजल्पनं परेषां कृते पीडायै भवति। मनुष्येण प्राप्ता शब्दशक्तिः सम्यग्विचार्यैव कथं कुत्र च उपयोक्तव्येति कर्मयोगस्य एकः अंशः। 

वस्तुतस्तु वाचालुतायाः अपेक्षया शास्त्रे मौनमेव अधिकतया प्रशस्यते। 

विशेषतः सर्वविदां समाजे विभूषणं मौनमपण्डितानाम्।

तुल्यनिन्दास्तुतिर्मौनी...।

मौनायन्ते भृशकलकले कोकिला भेकवृन्दे...।

मौनं सर्वार्थसाधनम्।

इत्याद्युक्तिषु सर्वत्र मौनप्रशंसैव दृश्यते। 

मौनेन आध्यात्मिकोन्नतिः भवति अतः तदनुपालयन् मुनिः इति उच्यते। मौनेन दत्तः गुरूपदेशः अधिकः सामर्थ्यशालीति विचारः। रमणमहर्षिः तथैव शिष्यान् आध्यात्मिकसामर्थ्यं प्रददाति स्म। दक्षिणामूर्तिस्तोत्रे तथैव वर्णितम्---

चित्रं वटतरोर्मूले वृद्धाः शिष्या गुरुर्युवा।
गुरोस्तु मौनं व्याख्यानं शिष्याः छिन्नसंशयाः।। 

एतैः उदाहरणैः दृश्यते यत् यद्यपि भगवत्कृपा मूकं करोति वाचालं तथापि एतादृशी भगवत्कृपा वाक्सामर्थ्यप्राप्तिपर्यन्तमेव इष्टा। ततः अग्रे अविचार्य तत्सामर्थ्यप्रयोगः गर्हितः इति।

----श्री.अभिजित तोडकर
     संस्कृतभारती।

🌸

No comments:

Post a Comment