Thursday, May 16, 2019

Story of koon pandian in sanskrit

Courtesy:Smt.Baala Chiraavoori 
अस्माकं मतलक्ष्यम्

अस्माकं देशे बहवः सिद्धान्ताःसन्ति। शैवसिद्धान्तः, वैष्णवानां पाञ्चरात्रम् , माध्वसिद्धान्तः .. अनेन परस्परवैरुध्येन विद्यमानाः सिद्धान्ताः मतान्यपि बहूनि सन्ति। परन्तु सर्वाण्यपि हिन्दूमते एव अन्तर्हितानि भवन्ति। एषु श्रेष्ठत्वं उत वा अल्पत्वं अस्येति अप्रस्तुतो विषयः। सर्वेष्वपि सिद्धान्तेषु एकैव आधारभूतो विषयोऽस्ति । कोऽयमिति जिज्ञासा आवशयकी भवति। कमपि पृच्छामश्चेत् सम्यक् समाधानं न आयाति। तेषां पाण्डित्यं अस्ति चेदपि सिद्धान्तेषु स्थितान् भेदानेव आधिक्येन प्रदर्शयन्ति। एतान् सिद्धान्तान् एकत्रीकर्तुं एकं लक्ष्यमेकं सिद्ध्यते चेदेव हैन्दवमेकमतमिति वक्तुं न  पारयामः। तर्हि तल्लक्ष्यं किं भवति?

अनुदिनमपि केचित् रामायणपारायणं कुर्वन्ति। पारायणप्रारम्भावसानेषु इमं श्लोकं पठन्ति-

 स्वस्तिः प्रजाभ्यः परिपालयन्तां 
 न्याय्येनमार्गेण महीं महीशाः। 
 गोब्राह्मणेभ्यःशुभमस्तु नित्यं 
 लोकाःसमस्ताःसुखिनो भवन्तु।।

 जनाः सौख्येन वसन्तु। राजानः धरणीं न्यायमार्गेन परिपालयन्ताम्। गोब्राह्मणेभ्यः नित्यं मङ्गलं भवतु। लोकाः समस्ताः सुखिनःभवन्तु इति अर्थो भवति।

अस्मिन् श्लोके जनान् राज्ञः प्रति पृथगुक्त्वा गोब्राह्मणान् प्रति प्रत्येकतया उक्तवन्तः। ब्राह्मणप्रशंसनं किमर्थं प्रत्येकं कुर्वन्ति? तेऽपि लोके एव सन्ति खलु। तर्हि तेषां वैशिषट्यं किमस्ति? ब्राह्मणेभ्यः शुभमस्तु इति प्रत्येकवचनं पक्षपातं न सूचयति? अनेन वक्तुं कथं आवश्यकं भवति?

  एकदा कून् पाण्ड्यन् इति राजा मधुरानगरं परिपालयति स्म। सः श्रमणमतं स्वीकृतवान्। तं मतं स्वीकृत्य सः "यःकोऽपि भस्मधारणं रुद्राक्षधारणं च मा कुर्यात्" इति शासनञ्चकार।राज्ञः भार्या, मन्त्री च परमशिवैकान्त भक्तौ। तथापि राजाज्ञां कथं अतिक्रामतः?  राज्ञः बुद्धिः परावर्त्य पुनः शैवमार्गे कदा आयातीति शिवाराधनं कदा करिष्यतीति बाधातप्तहृदयेन प्रतीक्षां कुरुतः। तस्मिन्काले एव तं राज्यं प्रति ज्ञानसम्बन्धिनः आगतवन्तः। ते चतुर्षु शैवाचार्येषु एकः। सुब्रह्मण्यस्वामिनः अपरावतारः। स्वभक्तैः साकं क्षेत्रदर्शनं कुर्वन्तः सन्तः मधुरानगरं आगतवन्तः। तथाविधं शुभसमयं प्रतीक्षमाणौ राजपत्नी रजमन्त्री च ज्ञानसम्बन्धिनं प्रति वार्तां प्रेषयित्वा एन केनापि प्रकारेण राज्ञः बुद्धिं परिवर्तयितु इति प्रार्थितवन्तौ।

 सम्बन्धिनः मधुरायां एकस्मिन् प्रान्ते विश्रान्त्यर्थं आवासः कुर्वन्ति। तेषामागनं न इच्छन् श्रमणाः तेषां आवासाय अग्निं प्रक्षिपन्ति। तं वीक्ष्य सम्बन्धिनः " अयमग्निः इतः राज्ञः देहे प्रवेशतु" इति ईश्वरं संप्रार्थितवन्तः। ईश्वरसंकल्पात् राजा अत्युग्रेण ज्वरेण पीडितः। श्रमणानां प्रयासेनापि स ज्वरः नापगतः। तदा मन्त्री ज्ञानसम्बन्धिनः वैशिष्ट्यं वर्णयित्वा तान् आह्वयामश्चेत् ज्वरः अपगमिष्यतीति सम्यगुक्तवान्। लोके विवादकरोऽपि व्याधिपीडितसमये सोढुं अशक्यत्वात् किंचित् स्वाभिप्रायं परिवर्तयति। तथैव व्याधितीव्रेण पीडितः कून् पाण्ड्यन्नपि रुद्राक्षधारिणं भस्मलेपिनं न पश्यामीति प्रतिज्ञायाः ईषत् स्खलितः। मन्त्रिवचनं अङ्गीकृतवान। मन्त्री आनन्दपरवशो भूत्वा सम्बन्धिनं निमन्त्रयामास।

राज्ञः निकटे श्रमणानां ज्ञानसम्बन्धिनां मध्ये वाग्विवादः प्रारम्भः कृतः। सम्बन्धिनः श्रमणान्नुद्दिश्य " भवन्तः राज्ञः दक्षिणपार्श्वस्थं ज्वरं अपनीयन्तु। अहं वामपार्शस्थं ज्वरं अपनेष्यामि । भवन्मन्त्रशक्तिं प्रदर्शयन्तु इति अवोचन्। यदि भवन्तः नापनेष्यन्ति चेत् भवन्तः पराजिता भविष्यन्ति। मया अपनेतुं न शक्यते चेत् अहं पराजितःभविष्यामि" इति उक्त्वा राज्ञः वामभागे विभूतिं अलेपयन्। तद्भागे ज्वरः निश्चलः जातः। किन्तु श्रमणानां परिश्रमा न सफला जाता। तदा श्रमणाः " भवान् दक्षिणभागस्य चिकित्सां कुर्वन्तु। वयं वामभागं ग्रहिष्यामः" इति अवोचन्। तथास्तु इति सम्बिनः अकथयन्। पुनः वामभागः ज्वरेण आक्रमितः।दक्षिणभागे ज्वरः अपनीतः। 

राज्ञः ज्वरः असामान्यः ननु ।ईश्वरसंकल्पादुद्भावितः।अतः श्रमणानां ग्रहीतो भागः पुनः ज्वरग्रस्थो जातः। श्रमणानां अशक्तत्वं प्रमाणीकृतम्। ततः सम्बन्धिनः राजानं प्रति औदार्येण  संपूर्णं ज्वरं अपनीतवन्तः।

तथापि  श्रमणाः तेषां पराजयं नाङ्गीकुर्वन्ति। राजापि संपूर्णं विश्वासं न आप्तवान्। वादः पुनः प्रारम्भः कृतः। स्बन्धिनः संवादात् प्राक् शिवमन्दिर गत्वा" स्वामिन्! वेदयागनिन्दापरायणान् श्रमणान् विजित्य त्वत् प्रतिभा विश्वव्यप्ता भूयादिति अनुगृह्णातु" इति प्रार्थितवन्तः। 

वादः मुहुर्प्रारब्धः। सम्बन्धिनः अवोचन्-" भवच्छिद्धान्ताः तालपत्रे विल्लिख्य वैघानद्यां प्रक्षिपन्तु। अहमपि मच्छिद्धान्तं लिखित्वा प्रक्षेपयामि। यत् तालपत्रं प्रवाहात् अभिमुखीकृत्य चलितुं शक्नोति तदेव सत्यसिद्धान्तः " इति। तत्रापि सम्बन्धिन एव विजेतारः। तथापि श्रमणाः नाङ्गीकृतवन्तः। तथैव तेषां सिद्धान्तान् तालपत्रे लिखित्वा अग्नौ प्राक्षिपन्। तेषां तालपत्रं अग्निदाहको जातः।
 सम्बन्धिनः अनेन लिखितवन्तः--

"ब्राह्मणाः सौख्येन वर्धन्ताम्। देवताः पशवश्च सुखं जीवन्तु।" अतः अस्माकं देशे मतबाहुल्यं वर्तते चेदपि मतलक्ष्यं इदमेव।

"गोब्राह्मणेभ्यः शुभमस्तु नित्यम्। लोकाः समस्ताः सुखिनो भवन्तु"।

 अपारकरुणासिन्धुं ज्ञानदं शान्तरूपिणम्। 
 श्री चन्द्रशेखरगुरुं प्रणमामि मुदावहम्।।

  🙏कञ्चिपरमाचार्यवैभवात् अनूद्य...

     🙏🌷बाला...✍

No comments:

Post a Comment