Friday, May 24, 2019

On BJP Symbol - Sanskrit poem

पद्मसौन्दर्यम्
****
(१)
सिद्धं यत् सलिले स्फुटन्ति नितरां पद्मानि देशे मधौ
चित्रं तानि पुनः स्थले बहुतमं ग्रीष्मेपि राजन्त्यहो।
तद्धर्मो भुवनस्य वै रुचिरता तस्मान्मुदा भारते
भासन्ते जनता सुखानि लभते दृष्ट्वा तदीयश्रियम्।।
(२)
पद्मं हि स्फुटति स्वयं जलपटे प्राप्यार्कतेजो ध्रुवं
किन्त्वस्मिन् न जलं न सूर्यकिरणं पङ्कं वसन्तो न वा।
श्रेष्ठा मोदिकृतिस्तदीयकसने भूता महाकारणं
दुष्टानामपिवारणेन हसति ह्रासो न तस्य स्थितिः।।
(३)
धन्यो हे नरकेशरिन्! तव कृतिर्धन्यं यशो गोरवं
धन्यं ते जननं पिता गुरुजनो माता कुटुम्बो  सखा।
धन्या दिव्यमतिः प्रजागणविधिः शिक्षा च दीक्षापि ते
धन्या शासनपद्धतिश्चिरदिनं देशस्य मुख्यो भव।।
              (व्रजकिशोरत्रिपाठी)

No comments:

Post a Comment