Friday, May 31, 2019

Congratulations Sri,.Modi ji- Sanskrit poem

मोदिकृतेभिनन्दनपञ्चकम्
********
(१)
जातो यो गुजुरातराज्यसुतनौ श्रीसोमनाथक्षितौ
यस्मिन् लौहसुमानवस्य जननं चासीन् महाभारते।
मोदी सैष महामना गुणखनि र्वाराणसीभूप्रियः
लोकानां सुखसाधनाय स पुनर्देशस्य मुख्योभवत्।।
(२)
देशे प्राप्य मतं समस्तमनुजात् सामान्यनिर्वाचने
शत्रूणां बलखण्डनेतिनिपुणो यो भाजपापूजकः।
दुष्टास्तेपि विरोधिनः प्रशमिता दृष्ट्वा यदीयोल्वणं
सोयं मोदिमहाशयो धृतयशा गृह्णाति देशं मुदा।।
(३)
सायं शान्तिविमण्डिते बहुजनैर्विश्वस्य राष्टेश्वरै
र्दिल्ली राजति रामनाथभवने दिव्योत्सवो वै यतः।
तस्मिन् भारतनायको नरमणिः श्रीमान् नरेन्द्रो महान्
देशार्थं शपथं पुनः स नयते तद्गोष्ठिभिः साग्रहम्।।
(४)
संसारेतिमृषान्विते न हि जना वित्तानि मानोपि न
पुण्यं धर्मबलं यशः कृतिचयः शेषे सहायो ध्रुवम्।
ज्ञात्वा मोदिमहोदयः किमिह वै कर्त्तुं सुकार्यं बहु
सर्वेषां पुरतः प्रधानपदवीं गृह्णाति नेत्रीश्वरः।।
(५)
हे शम्मो! गृहदेवते! निजसुतं रक्ष प्रदाय स्वभां
सोयं भातु समस्तलोकहृदये नौमि प्रभो! त्वत्पदम्।।
प्रभ्रष्टप्रतिभा पुनः प्रविशतां देशो विभातात् क्षितौ
मोदी राजतु विश्ववक्षसि सदा सर्वे लभन्तां सुखम्।
     
           ( व्रजकिशोरत्रिपाठी)

No comments:

Post a Comment