Tuesday, May 28, 2019

Assam people-Sanskrit essay

व्यक्तित्व-सरणिः--९
           🔯 असम-मनिषी 🔯

          🚩 हरि गजुरेलः --
     असममातुः सुपुत्रेषु हरि गजुरेलः अन्यतमः। सः एेतिहासिक-गुप्तकाशी इति नामधेयस्य भगवतः विश्वनाथमन्दिरस्य समीपे गोलियानामके ग्रामे क्रि. १ नवम्बर, १९४६ दिनाङ्के जन्म अलभत। तद्ग्रामम् एव परितः स्थितेषु विद्यालय-महाविद्यालयादिषु अधीत्य सः  स्नातकोपाधिं लब्धवान्। ततः नेपालदेशं प्रति प्रस्थाय त्रिभूवन-विश्वविद्यालयतः नेपाली-विषये स्नातकोत्तरोपाधिम् अपि प्राप्तवान्। ततः स्वगृहं प्रत्यागत्य विश्वनाथ-महाविद्यालये प्रवक्तारूपेण द्वित्रवर्षाणि यावत् अवैतनिक-सेवाकार्यं कृतवान्। ततः नाना विद्यालयादिषु एवं शिक्षादानं कुर्वन् अन्ते वापुजि-हाइस्कूल इत्यत्र सः स्थायिरूपेण शिक्षकसेवां निरुढवान्, क्रि. २००४ तमवर्षे ततः अवसरः अपि प्राप्तवान्।
       छात्रदशातः एव सः सङ्धटनप्रियः आसीत्। सः एकः कविः, प्रबन्धकारः, गीतकारः, समालोचकः, सुवक्ता, विनोदप्रियः सुदक्षश्च आसीत्। दरङ्कलेज-नेपालीछात्र-सङ्घः, अखिल-भारतीय-नेपालीभाषा-समितिः, असमनेपाली-छात्रसंस्था, विश्वनाथ-साहित्य-परिषद्, इत्यादिसंस्थासु तस्य मुख्यभूमिका आसीत्। क्रि. २०१६ तमवर्षतः असम-नेपाली-साहित्य-सभायाः सभापतित्वेन  स्थित्वा साहित्यक्षेत्रस्य बहुप्रगतिः साधिता तेन लोकहिताय। क्रि. १० अप्रैल, २०१८ तमवर्षे स्ववासगृहे सः दिवङ्गतः अभवत्।
        कृतयः- शब्द बटुल्दै, विचार -विमर्श, मान्छेको कथा खोज्दै,
तथैव नाना सञ्चिका-सम्वाद-पत्रादिषु बहवः गीत-कविता-निबन्धादयः।
     सम्पादना - प्रभात, पल्लव, जनकल्याण, धर्मानन्द-स्मृति, जय राम जी कि, आमा, कमलपराजुली-स्मृति, विष्णुलाल उपाध्याय-स्मृति इत्यादिग्रन्थानां सम्पादनां सः कृतवान् आसीत्।
 मिष्टभाषी सः सर्वेषां सम्मेलकः, प्रियश्च आसीदिति।
                  -- नारदः, ७/५/१९.

No comments:

Post a Comment