Wednesday, April 17, 2019

Sanskrit school - Sanskrit essay

*स्वर्वाणीप्रकाशः* (वाट्साप् गणः)
📚शुक्रवासरः फाल्गुनकृष्णद्वितीया (22-03-19)📝
✍प्रस्तावविषयः-- संस्कृतविद्यालयः💝

विद्यार्जने प्राचीनकालतः भारतीयाः तत्पराः आसन्। अस्मदीयाः पूर्वजाः विद्याया महत्त्वं सम्यक् ज्ञातवन्तः ते  इतरदेशिकान् निरन्तरं बोधितवन्तश्च। भारतदेशे पूर्वं सर्वत्र गुरुकुलानि आसन्। गुरुकुलेषु निरन्तरं शास्त्राध्ययनं प्रचलति स्म। सर्वत्र संस्‍कृतभाषाया अध्ययनम् अवश्यं करणीयम् आसीत्।। 

"गुरुशुश्रूषया विद्या " इत्येव भारतीयानां विचारः। अतः ते गुरोः समीपम् उषित्वा तस्य सेवायां निरताः भूत्वा विद्यार्जनं कुर्वन्ति स्म। 
तदानीन्तने विद्यार्जने भेदभावाः नासीत् किन्तु कालान्तरे धार्मिकापचयात् समूहे विविधाः हीनाचाराः जाताः तेन जातिव्यवस्थायाः आधारेण उच्चनीचत्वं समूहे प्रबलं जातम्। एवं कालान्तरे भारतीयानां ज्ञानशक्तेः तेषां धर्मबुद्धेः राष्‍ट्रभक्त्या च निवारणार्थं वैदेशिका अपि समाजे वैपरीत्यबुद्धिम् कालुष्यञ्च आनीतवन्तः। संस्कृतभाषायाः तिरस्कारेण भारतीयानाम् आत्माभिमानस्य नाशं भवतीति विचिन्त्य तदनुसारम् वैदेशिकाधिनिवेशशासकाः आचरितवन्तः। संस्कृतपाठशालाः ते पिधानं कृतवन्तः। अनेन तेषां लक्ष्यं सरलं जातम्। किन्तु सनातनधर्मस्य रक्षकः साक्षात् भगवानेव ननु! यथा ग्रहणानन्तरं सूर्यो दृश्यमानः भवति तथा पुनरपि भारतीयानां मनसि स्वीयं मूलं प्रति आसक्तिः दिने दिने वर्धमाना दृश्यते अतः कालेऽस्मिन् संस्कृतपाठशालायाः संख्या वर्धमाना अस्ति जनाः मूल्याधिष्ठितविद्यार्जनम् इच्छन्ति। संस्कृते शास्त्रबोधः जीवनमूल्यानि अस्माकं वैदिकसंस्कारश्च वर्तन्ते। व्यक्तेः सर्वतोमुखविकासं संस्कृतगुरूकुले जायते। केवलं पुस्तकेषु विद्यमानज्ञानैः जीवनं सार्थकं न स्यात् तदर्थं प्रायोगिकं ज्ञानम् अपेक्षितम्। आधुनिकसंस्कृतपाठशालासु पौराणिक-नूतनशास्त्राणां पाठः क्रियते अनेन छात्राः कालघट्टानुसारं जीवनस्य समग्रक्षेत्रेषु प्रप्रथमं स्थानं प्राप्तुं शिक्षिताः भवन्ति। संस्कृतं भारतीयज्ञानपरम्परा 
संस्कृतिश्च रक्षिताः भवन्ति। तादृशाः संस्कृतविद्यालयाः भारते सर्वत्र भवन्तु इति आशास्महे।। 


- सुनीशः

No comments:

Post a Comment