वन्दे मातरम्।
गर्जना
कियत्कालं रणे त्वं दृश्यसे रे पाक जानेऽहं
न तैलं ते विमाने वर्तते रे दुष्ट भाषेऽहम्।
गृहे नैवान्नमेवं ते कलत्रं क्रन्दति प्राय:
निवर्तस्वाद्य वीरो मे प्रयातो वर्तते सिंह:।।
पुरापि त्वं महावीरैर्मुहु: सन्ताडितो जात:
पदे लग्नो विमुक्तो रे न भिक्षो सैनिकैस्त्यक्त:?
इदानीमुन्नमय्य शिरो वृथा विस्फोटनं कुर्वन्
निजायुर्हन्त हन्तुं भो: पुनर्नो दूयसे बुक्कन्।।
धृतो मे मातृपुत्रै: सङ्गरे शत्रो भृशं क्रन्दन्
क्षमासंयाचनां याचन् विमुक्तो लक्ष्यसे तर्जन्।
अरे मृत दीन शठ पापिन् महातङ्किन् निजं देशं
द्रुतं संरक्ष रक्षैवं निजं रूपं निजं वेशम्।।
न विश्वासोऽस्ति ते वाक्ये पुनर्नो कामये वक्तुं
रणे शौर्यं सुखं सम्पश्य यास्यसि धृष्ट यमगेहम्।
मुखान्मधु भाषणं कुरुषे मुधा पृष्ठे न किॆं शस्त्रं
विरम नो दैत्य वञ्चक रे भविष्यति ते मुखं भग्नम्।।
मदीयं भारतं शान्तिं समृद्धिमुन्नतिं नित्यं
सदा संवर्धमानं चेहते जानाति लोकोऽयम्।
परं ते नेत्रयुग्मं नैव पश्यति मामकं रूपं
त्वदीयां नेत्रपुत्तलिकां हरिष्यति सैनिक: शीघ्रम्।।
****अरविन्द:
No comments:
Post a Comment