Monday, February 18, 2019

Pulwama incident -sanskrit

courtesy:Sri.Narad Upadhyaya

दूरदर्शने सम्प्रति दृश्यमाणानि दुःखपूर्णानि वार्ताचित्राणि विक्ष्य श्वहीदानां माता, पिता, पत्नी, पुत्री इत्यादीनाम् अभिजनानां चक्षुषोः अश्रुधारां दृष्ट्वा च न केवलं मानवानां हृदयम् अपितु कठोरशिलाः अपि गलन्त्यः इव अनुभूयन्ते। भारतभूमीस्थाः सर्वे अपि मृत्कणाः रुदन्तः इव। जलं वायुः,आकाशः इत्यादयः सर्वे अपि करुणया वेदनया च मृयमाणाः इव। सम्पूर्णः निसर्गः एव शोकाकूलः इव। तथापि,
     रे नराधमाः ! राक्षसाः ! युष्माकं हृदयं केन पाषाणेन निर्मितम् ? अपेक्षां कुर्वन्तु किञ्चित् ! भवत्पुरतः एव  तत् दुर्दिनम् आसन्नम् अस्ति। एकैकः सः अश्रूबिन्दुः भवतां ध्वस्तुं सक्षमः अस्ति। तत् महत् अश्रूऋणं प्रत्यर्पयितुं सज्जाः तिष्ठन्तु। केन शब्देन एते नराधमाः धिक्करणीयाः , तादृशः समुचितः शब्दः अभिधाने अपि नास्ति। कोटिशः धिक् एतान् पाखण्डान् !!!

No comments:

Post a Comment