Monday, February 18, 2019

Homage to the brave for Pulwama incident in Sanskrit

पुलवामायाम् अस्माकं वीराः आतंकवादिभिः हताः!
एतस्याः जघन्यायाः   घटनायाः वयं सर्वे भर्त्सनां कुर्म!

दिवंगतानां  वीराणां परिवारजनै: वयं सर्वदा स्म:!

सर्वेभ्यः देहत्यागिनेभ्यः वीरेभ्यः वयं श्रद्धाञ्जलिं समर्पयामः ।

🙏🙏🙏🙏


 अतीव दुःखस्य विषयः यत् पुलवालायाम् अस्माकं चत्वारिंशदधिकाः वीराः आतङ्कवादिभिः हताः इति। अनया दुःवार्तया अधुना वयं सर्वे मर्माहताः स्मः। तेभ्यः दिवङ्गतेभ्यः देशरक्षकेभ्यः क्षत्रियवीरेभ्यश्च श्रद्धाञ्जलिं समर्पयामः। एतेषां परिवारान् प्रति  अस्माकं सकलदेशवासिनां समवेदना। 
     तान् दुष्टान् आततायिनः कोटिशः भर्त्सनं कुर्मः वयम्। तेषाम् सविधे अतिशीघ्रं महती दुर्दशा, पतनं च समागच्छेत् इति कोटिशः भारतीयानाम् अस्माकम् अभिशापः अयम्।

 देशस्थाः सर्वे अविकलाङ्गयुवकाः भारतीयसैन्यं प्रविश्य प्रत्येकं द्वित्राणां  पाकिस्थानसैनिकानां शिरांसि कर्तयित्वा भारतमातुः चरणयोः समर्पयेयुश्चेदेव सा यथार्थश्रद्धाञ्जलिः भवेत् इति मन्ये।

🙏
अवातरन्नूतनभारतं तत् सन्ध्याभ्रसंवीतसन्निधाभम्......रक्तप्रलयेन साकम्। भारतस्य स्वातन्त्र्यादारब्ध जम्मुकाश्मीरसमस्यायाः  शाश्वतपरिहारः आवश्यकः। कोङ्ग्रेसदलेन चिरशासनलाभाय आविष्कृतस्य विशिष्टाधिकारं समाप्य शाश्वतशान्तिमानयतु....!
गम्भीरतया अस्माभिः चिन्तनीयः विषयः-
पूर्वतः एव भारतं  शान्तिप्रियजनानां देशः। एषः देशः कस्यापि देशस्य कमपि  अपकारं न अकरोत् कदापि, वरञ्च उपकारं मार्गदर्शनं चैव कुर्वन् दृश्यते सहनया। तथापि एवं ऋषिमहर्षिणां दिनतः एव ऋजुमार्गेण आगताय एतस्मै देशाय अन्यदेशीयाः किमर्थम् एवम् असूयन्ति ? भारततः किम् इच्छन्ति ते ?  अत्यन्तं जघन्यघटनया जातां महतीं स्वस्य  हानिम् अपि सोढ्वा भारतं परस्परं सम्प्रीतिः स्थापनाय एव प्रयत्यमानं भवति सर्वदा। तथापि ते क्रूरकर्मिणः इतरदेशीयाः  भारतस्य हानिं कामयमानाः सन्तः सर्वदा वैरायन्ते, असकृत् च गोपनीयतया निर्लज्जतया च  आक्रमणं कुर्वन्ति। हाय ! सहनस्य धैर्यस्य चापि काचित् परिसीमा भवति। वारम्वारं यदि एवमेव स्वदेशे अमानवीयघटनादिकं घटेत्  तर्हि देशस्थानां शान्तिप्रियजनानां, महिलानां, बालानां, भाविसन्ततिनां च स्वाभाविक-जीवनस्य कीदृशी गतिः स्यात् इति अत्यन्तं चिन्तनीयः विषयः अस्ति साम्प्रतम् अस्माकं सर्वेषाम्। इदानीं सर्वेषां महतः जागरणस्य समयः आगतः अस्ति। महतः आसुरिकगुणान् पराजेतुं ध्वस्तुं धूलिसात् कर्तुं च रणचण्ड्याः महाकाल्याः दुर्गादेव्याः तीव्राराधना करणीया इति एतादृशः समयः आसन्नोsस्ति अधुना, इति।


No comments:

Post a Comment