Thursday, February 21, 2019

Article on Sanskrit grammar

डा.मोहनीलालनेपालः
उपप्राध्यापकः
रूरू संस्कृत विद्यापीठ रिडी गुल्मी

शब्दनिर्वचनप्रकारकं शास्त्रं व्याकरणं निगद्यते । साधुशब्दज्ञानं व्याकरणाध्ययनस्य मुख्यं प्रयोजनम््  ।
जानन्त्येव विद्वांसो यत् संस्कृतवाङ्मयज्ञानाय व्याकरणमेव मुख्यं साधनम् । ऐन्द्रचान्द्रादिषु . नैकेषु व्याकरणेंषु सत्स्वपि सर्वत्राधुना पाणिनीयव्याकरणंमेव प्रचलति । तच्च व्याकरणं लक्ष्यलक्षणात्मकम् । शब्दो लक्ष्यःसूत्रन्तु लक्षणम् । अनयोःसम्यक् ज्ञानार्थं पाणिनीयाष्टाध्याय्या अध्ययनं परमावश्यकम् । सरलरीत्या व्याकरणशास्त्रज्ञानाय अष्टाध्यायीस्थक्रम – काठिन्यनिवारणाय च प्रक्रियाक्रमस्यारम्भो जातः । श्रीमद्भट्टोजिदीक्षित विरचिता सिद्धान्तकौमुदी प्रौढापाण्डित्य परिपूर्णावर्तते । शब्दनिर्मापकेषु अत्र समासस्य परिचयः प्रस्तूयते –
 समसनं समासः । अनेकपदानामेकपदी भवनं समासः ।
 अथवा
 पदयोरैक्यं वा समासः । भिन्नप्रवृत्तिनिमित्तानां शब्दानां विशिष्टैकार्थप्रतिपादकतया एकपदीभवनं समासः इति निगद्यते । तच्च पृथगर्थपदानामेकार्थोपस्थितिजनकत्वरूपम् । यथा – राज्ञःपुरुषः राजपुरुषः, कृष्णं श्रितः कृष्णश्रितः इत्यादि ।
 नित्यानित्यभेदेन समासः द्विविधः । अत्र समासस्य विभाषितत्वं नित्यत्वम् । यथा – प्रकर्षेण वरः =प्रवरः : ।
कुम्भं करोतीति कुम्भकारः  ।
 वृत्यर्थवबोधको विग्रहः । वृत्यर्थावबोधकं वाक्यं विग्रहः । स च लौकिकाद्रलौकिकभेदेन द्विधा – स्वपदविग्रहः अस्वपदविग्रहश्च । लौकिको यथा – कृष्णं श्रितः , पूर्वं भूतः , अलौकिको यथा कृष्ण+अम् श्रित+सु , पूर्व+अम् भूत+सु इति ।
          नित्यसमासे प्रायेणास्वपदविग्रहो भवति । समासस्य विभाषितत्वञ्च नित्यत्वम् यथा – राज्ञः पुरुषः राजपुरुषो वा । शिवश्च केशवश्च शिवकेशवौ । हरिश्च हरश्च हरिहरौ वा ।
प्रथमतः समासः षड्विधः –
 सुपा सुपा तिङा नाम्ना धातुनाद्रथ तिङां तिङा ।
 सुबन्तेनेति विज्ञेयः समासः षड्विधो बुधैः  ।
 सुपां सुपा – सुबन्तानां सुबन्तेन, सुपां तिङा सुबन्तानां तिङन्तेन, सुपां नाम्ना – सुबन्तानां प्रातिपदिकेन, सुपां धातुना – सुबन्तानां धातुना, तिङां तिङा – तिङन्तानां तिङन्तेन , तिङां सुपा – तिङन्तस्य सुबन्तेन च समासो भवति इति कारिकार्थः।
 क्रमेण उदाहरणानि यथा – १) सुबन्तानां सुबन्तेन  – – राज्ञः पुरुषः = राजपुरुषः अत्र राज्ञः इति षष्ठ्यन्तस्य सुबन्तस्य पुरुषः इति प्रथमान्तेन सह समासो भवति । पूर्वं भूतः = भूतपूर्वम् , अत्र पूर्वम् इति द्वितीयान्तस्य सुबन्तस्य भूतःइति प्रथमान्तेन सह समासः।
२) सुबन्तानां तिङन्तेन – पर्यभूषयत् इति । अत्र ' सह सुपा" इत्यत्र सहेति योगविभागात् परि इति सुबन्तस्य अभूषयत् इति तिङन्तेन समासः।
 ३) सुपां नाम्ना  – (सुबन्तानां प्रातिपदिकेन) – कुम्भकारः – इत्यत्र 'गतिकारकोपदानां कृद्भिःसह समासवचनं प्राक् सुबुत्पत्तेः" इति परिभाषया कारशब्दात् सुबुत्पत्तेः पूर्वमेव 'उपपदमतिङ्"इति सूत्रेण कुम्भस्य इति षष्ठ्यन्तस्य कार इति प्रातिपदिकेन समासः।
४) सुपां धातुना – (सुबन्तानां धातुना) कटप्रू  – इत्यत्र 'क्विब्वचिप्रच्छायतस्तुकटप्रुजुश्रीणां दीर्र्घाेद्रसम्प्रसारणम् च " इत्यनेन कटम् इति द्वितीयान्तस्य प्रातिपदिकस्य प्रूधातुना सह क्विब्विधानात् समासो निपातितः। अजस्रम्  – अत्र'नमिकम्पिरम्यजसकभिहिंसदीपो रः" इति सूत्रेण र प्रत्ययविधौ जस्धातुना सह नञ् समासो निपातितः।
५) तिङां तिङा ( तिङन्तानां तिङन्तेन) – पिबतखादता  – अत्र 'मयूरव्यंसकादीनां च" इत्यनेन पिबत इति तिङन्तस्य खादत इति तिङन्तेन समासः।
६) तिङां सुपा – तिङन्तस्य सुबन्तेन – कृन्तविचक्षणा  – अत्र कृन्त इति तिङन्तस्य विचक्षणा इति सुबन्तेन सह'एहीडादयोद्रन्यपदार्थे"इति सूत्रस्य मयूरव्यंसकादिगणे पाठात् समासः । जहिजोडः  – अत्र जहि इति तिङन्तस्य जोड इति सुबन्तेन सह 'जहिकर्मणा बहुलमाभीक्ष्ण्ये"इति गणे पाठात् समासः । षड्विधेषु समासेषु प्रथमः सुपां सुपा – सुबन्तानां सुबन्तेन समासः षड्विधः –
द्वन्द्वो द्विगुरपि चाहं मद्गेहे नित्यमव्ययीभावः।
तत्पुरुषः कर्मधारय येनाद्रहं स्यां बहुव्रीहिः ।।
अथवा
समासभेदाः षोढा तत्पुरुषःकर्मधारयः ।
द्विगुद्र्वन्द्वोद्रव्ययीभावो बहुव्रीहिरितीरिताः ।
१. अव्ययीभावः २. तत्पुरुषः ३. कर्मधारयः ४. द्विगुः ५. बहुब्रीहिः ६. द्वन्द्वः ।
१. अव्ययीभावसमासः – अनव्ययम् अव्ययः सम्पद्यते इति.अव्ययीभावः । प्रायेण पूर्वपदार्थप्रधानोद्रव्ययीभावः। अव्ययपदेन यत्र समासो भवति स .अव्ययीभावसमासः ।
 पाणिनिसंकेत सम्बन्धेन अव्ययपदवत्वम् अव्ययत्वम् ।
सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु । वचनेषु च सर्वेषु यन्न व्येति तदव्ययम्   । त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु सर्वेषु वचनेषु च यन्न व्येति विकारं न प्राप्नोति किन्तु सदृशम् एकप्रकारमेव भवति तदव्ययम् इत्यर्थः ।
 अव्ययपदार्थप्रधानोद्रव्ययीभावसमासः । स च पूर्वपदार्थप्रधानः उत्तरपदार्थप्रधानः अन्यपदार्थप्रधानश्चेति त्रिविधः ।
१) पूर्वपदार्थप्रधानो यथा – कृष्णस्य समीपम् – उपकृष्णम्, गङ्गायाःसमीपम् – उपगङ्गम् । अत्र 'अव्ययं विभक्ति समीप  – .".इत्यनेन समीपार्थे समासः ।
२) उत्तरपदार्थप्रधानो यथा – शाकस्य प्रति – शाकप्रति 'सुप्प्रतिना मात्रार्थे" इत्यनेन समासः।
३) अन्यपदार्थप्रधानो यथा – लोहितगङ्गम् – लोहिता गङ्गा यस्मिन् तत् लोहितगङ्गम् नामदेशः, उन्मत्ता गङ्गा यस्मिन् तत् उन्मत्तगङ्गं देशः अत्र 'अन्यपदार्थे च संज्ञायाम् "इत्यनेन समासः ।
अव्ययीभावसमासः प्रथमा – द्वितीया – तृतीया – पञ्चमी – षष्ठी – सप्तमी विभक्तेः भवति ।
 यथा – प्रथमाविभक्तिः – (प्रथमान्ताव्ययीभावः) –
 द्विमुनि – द्वौ मुनी वंश्यौ = द्वि औ मुनि औ, । त्रिमुनि व्याकरणस्य – त्रयः मुनयः = त्रि जस् मुनि जस् अत्र 'संख्या वश्येन  – इत्यनेन समासः ।
–        द्वितीयाविभक्तिः – (द्वितीयान्ताव्ययीभावः) – प्रत्यर्थम् – अर्थं अर्थं प्रति इति = अर्थ अम् प्रति इति । अत्र 'अव्ययं विभक्ति. .इत्यनेन वीप्सार्थे समासः ।
–        तृतीयाविभक्तिः – (तृतीयान्ताव्ययीभावः) – सदृशार्थे – हरेः सादृशम् =हरि टा सादृश्य(सह) अत्र 'अव्ययं विभक्ति " इत्यनेन सदृसार्थे समासः । अक्षपरि =अत्र अक्षेण विपरीतं वृत्तम्, अक्ष टा परि, शलकापरि =शलकया विपरीतं वृत्तम् – शलका टा परि, एकपरि एकेन विपरीतं वृत्तम् – एक टा परि अत्र'अक्षशलकासंख्याः परिणा "इत्यनेन समासः ।
–        पञ्चमीविभक्तिः – (पञ्चम्यन्ताव्ययीभावः) – अपविष्णु संसारः=विष्णोः अप =विष्णु+ङसि अप, आमुक्ति संसारः= आ मुक्तेः, मुक्ति+ङसि आ, बहिर्वनम्=वनाद् बहिः =वन+ङसि बहिः, प्राग्वनम्=प्राक् वनात् = वन+ङसि प्राक् अत्र 'अपपरिबहिरञ्चवः पञ्चम्या " इत्यनेन समासः। आबालं हरिभक्तिः=आ बालेभ्यः = बाल ङसि आ अत्र 'आङ्मर्यादाद्रभिविध्योः " इत्यनेन समासः।
–        षष्ठीविभक्तिः – (षष्ठ्यन्ताव्ययीभावः) – उपशरदम्=शरदः समीपम्=शरद्+ङस् उप । प्रतिविपाशम् =विपाशः समीपम् विपाश्+ङस् उप । उपकृष्णम् =कृष्णस्य समीपम् = कृष्ण+ङस् उप । अत्र
–        समीपार्थे 'अव्ययं विभक्ति. " इत्यनेन समासः। मध्येगङ्गम्=गङ्गायाः मध्यात् =गङ्गा+ङस् मध्य+ङसि, पारेगङ्गम्=गङ्गायाः पारात् =गङ्गा+ङस् पार+ङसि अत्र 'पारेमध्ये षष्ठ्या वा  " इत्यनेन समासः। =
–        सप्तमीविभक्तिः – (सप्तम्यन्ताव्ययीभावः) – अधिहरि = हरौ इति =हरि+ङि अधि । अध्यात्मम् =आत्मनि = आत्मन्+ङि अधि अत्र'अव्ययं विभक्ति .. " इत्यनेन समासः।
२) तत्पुरुषसमासः – तस्य पुरुषः तत्पुरुषः, सः पुरुषः तत्पुरुषः । प्रायेणोत्तरपदार्थप्रधानो तत्पुरुषसासः  । तत्पुरुषभेद कर्मधारयः । कर्मधारयभेदो द्विगुः । तत्पुरुषसमासः द्विविधः – व्यधिकरणः समानाधिकरणश्च ।
क) व्यधिकरणतत्पुरुषः – यत्र भिन्नविभक्तिकयोपदयोर्योगः सः व्यधिकरणतत्पुरुषसमासः । अयं समासः विभक्तिना सह भवति ।
यथा – पूर्वकायः पूर्वं कायस्य ।
–        द्वितीयातत्पुरुषः – कृष्णश्रितः= कृष्णं श्रितः = कृष्ण+अम् श्रित+सु ।
–        दुःखातीतः=दुःखमतीतः= दुःख+अम् अतीत+सु अत्र द्वितीयाश्रितातीतपतितगतात्यस्तप्राप्तापन्नैः "इत्यनेन समासः। मुहूर्तसुखम्= मुहूर्तं सुखम् = मुहूर्त+अम् सुख+सु अत्र'अत्यन्तसंयोगे च  " इत्यनेन समासः।
–        तृतीयातत्पुरुषः – शंकुलाखण्डः =्शंकुलया खण्डः =्शंकुला+टा खण्ड+सु । धान्यार्थः = धान्येन अर्थः = धान्य+टा अर्थ+सु अत्र 'तृतीया तत्कृतार्थेन गुणवचनेन " इत्यनेन समासः। मासपूर्वः =मासेन पूर्वः = मास+टा पूर्व+सु । मातृसदृशः =मात्रा सदृशः =मातृ+टा सदृश+सु । पितृसमः = पित्रा समः =पितृ+टा सम+सु । वाक्कलहः =वाचा कलहः = वाच्+टा कलह+सु । आचारनिपुणः= आचारेण निपुणः=आचार+टा निपुण+सु । गुडमिश्रः=गुडेन मिश्रः= गुड+टा मिश्र+सु । अत्र 'पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः " इत्यनेन समासः। हरित्रातः=हरिणा त्रातः=हरि+टा त्रात+सु । नखभिन्नः=नखैःभिन्नः=नख+भिस् भिन्न+सु अत्र 'कर्तृकरणे कृता बहुलम् "इत्यनेन समासः।
–        चतुर्थीतत्पुरुषः – यूपदारु= यूपाय दारु =यूप+ङे दारु+सु । भूतबलिः=भूताय बलिः=भूत+ङे बलि+सु । गोहितम् =गवे हितम् = गो+ङे हित+सु । गो सुखम् =गोभ्यः सुखम् =गो+भ्यस् सुख+सु । । गो रक्षितम् =गवे रक्षितम् = गो+ङे रक्षित+सु । अत्र'चतुर्थीतदर्थार्थबलिहितसुखरक्षितैः " "इत्यनेन समासः।
–        पञ्चमीतत्पुरुषः – चोरभयम् = चोराद् भयम् =चोर+ङसि भय+सु । सिंहभयम् =सिंहाद् भयम् =सिंह+ङसि भय+सु अत्र 'पञ्चमी भयेन "इत्यनेन समासः। सुखापेतः=सुखात् अपेतः=सुख+ङसि अपेत+सु । स्वर्गपतितः= स्वर्गात् पतितः=स्वर्ग+ङसि पतित+सु अत्र'अपेतापोढमुक्तपतितापत्रस्तैरल्पशः "इत्यनेन समासः। स्तोकान्मुक्तः= स्तोकात् मुक्तः=स्तोक+ङसि मुक्त+सु । अल्पान्मुक्तः=अल्पात् मुक्तः=अल्प+ङसि मुक्त+सु । अन्तिकादागतः=अन्तिकात् आगतः = अन्तिक+ङसि आगत+सु । दूरादागतः=दूरात् आगतः=दूर+ङसि आगत+सु । अत्र'स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन "इत्यनेन समासः।
–        षष्ठीतत्पुरुषः – राजपुरुषः= राज्ञःपुरुषः =राजन्+ङस् पुरुष+सु । अत्र 'षष्ठी" "इत्यनेन समासः । ब्राह्मणयाजकः = ब्राह्मणस्य याजकः= ब्राह्मण+ङस् याजक+सु । देवपूजकः = देवस्य पूजकः=देव+ङस् पूजक+सु । अत्र'याजकादिभिश्च "इत्यनेन समासः ।
–        सप्तमीतत्पुरुषः – काव्यकुशलः=काव्ये कुशलः = काव्य+ङि कुशल+सु । अक्षशौण्डः= अक्षेषु शौण्डः= अक्ष+सुप् शौण्ड+सु अत्र'सप्तमी शौण्डैः "इत्यनेन समासः । सांकाश्यसिद्धः=सांकाश्ये सिद्धः =सांकाश्य+ङि सिद्ध+सु । आतपशुष्कः= आतपे शुष्कः= आतप+ङि शुष्क+सु । स्थालीपक्वः=स्थाल्यां पक्वः= स्थाली+ङि पक्वः+सु । चक्रबन्धः=चक्रे बन्धः चक्र+ङि बन्धः+सु अत्र 'सिद्धशुष्कपक्वबन्धैश्च  "इत्यनेन समासः ।
ख) समानाधिकरणतत्पुरुषः – समानविभक्त्या सह जायमानःसमासो हि समानाधिकरणतत्पुरुषसमासोद्रस्ति । विशेषरूपेण कर्मधारयद्विगुसमासे हि समानाधिकरणतत्पुरुषस्य रूपे प्राप्येते(लभ्येते) । यथा – कृष्णसर्पः= कृष्णःसर्पः= कृष्ण+सु सर्प+सु अत्र'तत्पुरुषःसमानाधिकरणःकर्मधारयः "इत्यनेन समासः । नीलोत्पलम्= नीलम् उत्पलम् = नील+सु उत्पल+सु अत्र'विशेषणं विशेषेण बहुलम् "इत्यनेन समासः । घनश्यामः – घन इव श्यामः =घन+सु श्याम+सु अत्र' उपमानानि सामान्य वचनै  "रित्यनेन समासः ।
३) कर्मधारयसमासः – तत्पुरुषभेदः कर्मधारयः। तत्पुरुषःसमानाधिकरणः कर्मधारयः । स च विशेष्यपूर्वपदोपमानोत्तरपदयोःपूर्वपदार्थस्य तदन्यस्य च उत्तरपदार्थस्य प्रधानं भवति । यथा –
–        विशेषणपूर्वपदः – नीलमुत्पलम् = नीलोत्पलम् , नीलवस्त्रम्=नीलञ्च तद् वस्त्रम् । कृष्णसर्पः=कृष्णःसर्पः अत्र'विशेषणं विशेषेण बहुलम् "इत्यनेन समासः ।
–        उपमानपूर्वपदः – घन इव श्यामः =घनश्यामः अत्र' उपमानानि सामान्य वचनै "इत्यनेन समासः ।
–        उपमानउत्तरपदः – पुरुषव्याघ्रः=पुरुष व्याघ्र इव, मुखकमलम्= मुखं कमलमिव । नृपचन्द्रः= नृप :चन्द्र इव । अत्र 'उपमितं व्याघ्रादिभिःसामान्याप्रयोगे  "इत्यनेन समासः ।
–        विशेषणोभयपदः – कृष्णश्च श्वेतश्च =कृष्णश्वेतः । शीतोष्णम्= शीतञ्च तदुष्णम् । अत्र'विशेषणं विशेषेण बहुलम् "इत्यनेन समासः। एकनाथः=एकश्चासौ नाथश्च । केवलवैयाकरणाः=केवलाश्च ते वैयाकरणाः । अत्र'पूर्वकालैकसर्वजरत्पुराणनवकेवलाःसमानाधिकरणेन  "इत्यनेन समासः।
–        विशेष्यपूर्वपदः – वैयाकरणश्चासौ खसूचिश्चेति =वैयाकरणखसूचिः । ब्राह्मणश्रोत्रियः= ब्राह्मणश्चासौ श्रोत्रियः । गोवशा= गौश्चासौ वशा । अत्र 'कुत्सितानि कुत्सनैः "इत्यनेन समासः। मयूरव्यंसकः= व्यंसकः मयूर (मयूरो व्यंसकः) । राजान्तरम्=अन्यो राजा अत्र 'मयूरव्यंसकादयश्च ""इत्यनेन समासः।
४) द्विगुसमासः – तत्पुरुषभेद कर्मधारयः। कर्मधारयभेदो द्विगुः । संख्यावाचकशब्देन सह समाहारार्थे यत्र समासो भवति सःद्विगुःसमासःकथ्यते । संख्यापूर्वो द्विगुः , द्विगुरेकवचनम्  , स नपुंसकम्  । द्विगुसमासः एकवदभावी अनेकवदभावी भेदेन द्विविधः – यथा –
एकवदभावी –
–        त्रिलोकम् =त्रयाणां लोकानां समाहारः=त्रि+आम् लोक+आम् ।
–        त्रिभुवनम् =त्रयाणां भुवनानां समाहारः=त्रि+आम् भुवन+आम् ।
–        पञ्चमूलम्= पञ्चानां मूलानां समाहारः=पञ्चन्+आम् मूल+आम् ।
–        पञ्चगवम्= पञ्चानां गवानां समाहारः=पञ्चन्+आम् गो+आम् ।
–        पञ्चपात्रम्= पञ्चानां पात्राणां समाहारः=पञ्चन्+आम् पात्र+आम् ।
–        पञ्चाजी= पञ्चानां अजानां समाहारः=पञ्चन्+आम् अज+आम् ।
–        त्रिलोकी =त्रयाणां लोकानां समाहारः=त्रि+आम् लोक+आम् । अत्र'तद्धितार्थोत्तरपदसमहारे च "इत्यनेन समासः।
अनेकवदभावी –
–        त्रयोलोकाः=त्रिलोकाः।
–        चतस्रोदिशः=चतुर्दिशः।
–        सप्तर्षयः=सप्त च ते ऋषयः। अत्र 'दिक्संख्ये संज्ञायाम् "इत्यनेन समासः।
५) बहुव्रीहिसमासः – प्रायेणान्यपदार्थ प्रधानो बहुव्रीहिः। बहुव्रीहि(धान्यम्) यस्य अस्ति स बहुव्रीहिः। अथवा यत्र अन्यपदार्थस्य  प्राधान्यं भवति सः बहुव्रीहिसमासः निगद्यते । अनेकं प्रथमान्तमन्यपदार्थे वर्तमानं वा समस्यते सः बहुव्रीहिः। बहुव्रीहिसमासे अन्यपदार्थस्य प्राधान्यात् समस्तपदस्य तदनुसारेण लिङ्गवचनानि भवन्ति । समानाधिकरणव्यधिकरणभेदेन बहुव्रीहिसमासः द्विविधः ।
१) समानाधिकरणबहुव्रीहिः – अयं समासःअप्रथमा विभक्त्यर्थे भवति । अथवा प्रथमा विभक्तं विहाय द्वितीयातः सप्तमीविभक्तिपर्यन्तं भवति । यथा –
–        द्वितीया – प्राप्तोदको ग्रामः=प्राप्तम् उदकं यं सः ।
–        तृतीया – ऊढरथोद्रनड्वान् – ऊढःरथः येन सः, दत्तचित्तः=दत्तं चित्तं येन सः ।
–        चतुर्थी – उपहृतपशु रुद्रः – उपहृतःपशु यस्मै सः, दत्तधनो ब्राह्मणः=दत्तं धनं यस्मै सः।
–        पञ्चमी – निर्धनःपुरुषः=निर्गतं धनं यस्मात् । उद्धृतौदना स्थाली=उद्धृतम् ओदनं यस्मात् सा ।
–        षष्ठी – पीताम्बरो हरिः=पीतम् अम्बरं यस्य सः, लम्बकर्णः=लम्बौ कर्णौ यस्य सः ।
–        सप्तमी – वीरपुरुषको ग्रामः=वीराः पुरुषाः यस्मिन् सः । अत्र'अनेकमन्यपदार्थे  "इत्यनेन समासः ।
२) व्यधिकरणबहुव्रीहिः  – अयं समासःप्रथमा विभक्त्यर्थे भवति ।
–        चक्रपाणिः= चक्रं पाणौ यस्य सः,
–        चन्द्रशेखरः=चन्द्रः शेखरे यस्य सः
–        उरसिलोमा=उरसिलोमानि यस्य सः । अत्र'अनेकमन्यपदार्थे  "इत्यनेन समासः।
६) द्वन्द्वसमासः – प्रायेण उभयपदार्थप्रधानो द्वन्द्वः । यत्र उभयपदार्थस्य प्राधान्यं स द्वन्द्वसमासः । अनेकं सुबन्तं चकारस्य अर्थे वर्तमानं वा समस्यते स द्वन्द्वः । समुच्चयः, अन्वाचयः, इतरेतरयोगःसमाहारश्च चकारस्य अर्थाः । एषु अर्थेषु मध्ये समुच्चये अन्वाचये च समासो न भवति असामथ्र्यात् ।
 यथा –
 १. समुच्चये – ईश्वरं गुरुं च भजस्वः, (देवदत्तःपचति यज्ञदत्तश्च) ।
 २. अन्वाचये – भिक्षामट गां चानय ।
 इतरेतरयोगे समाहारे च द्वन्द्वसमासो भवति ।
 ३. इतरेतरयोगः – मिलितानामन्वय इतरेतरयोगः। अत्र उभयपदयोरर्थः प्राधानंभवति । यथा – धवखदिरौ= धवश्च खदिरश्च ।
शिवकेशवौ=शिवश्च केशवश्च ।
हरिहरौ= हरिश्च हरश्च ।
 रामौ= रामश्च रामश्च ।
 पितरौ= माता च पिता च ।
 मातापितरौ = माता च पिता च ।
घटौ= घटश्च कलशश्च ।
होतापोतारौ= होता च पोता च । अत्र 'चार्थे द्वन्द्वः "इत्यनेन समासः ।
४) समाहारे  (समूहः समाहारः) अत्र समूहार्थस्य प्राधान्यं भवति । यथा – पाणिपादम् =पाणी च पादौ च तयोः समाहारः =पाणि+औ पाद+औ, ।
संज्ञापरिभाषम् =संज्ञा च परिभाषा च एषां समाहारः =संज्ञा+सु परिभाषा+सु ।
गवाश्वम् = गावश्च अश्वाश्च एषां समाहारः =गो+जस् अश्व+जस् ।
अहिनकुलम् = अहयश्च नकुलाश्च एषां समाहारः=अहि+जस् नकुल+जस् ।
नखदन्तम् =नखाश्च दन्ताश्च तयोः समाहारः=नख+जस् दन्त+जस् ।
वाक्त्वचम् = वाक्च त्वक्च तयोः समाहारः=वाक्+सु त्वक्+सु ।
अत्र 'चार्थे द्वन्द्वः "इत्यनेन समासः इति ।
एवं समासः खलु पद व्युत्पादको भवतीति लघुत्वात् सः स्वीक्र्रियते वैयाकरणैः । अन्यथा प्रत्येकं वाक्यप्रयोगापत्तिःपदप्रयोगापत्ति र्वा स्यादिति गौरवम्

No comments:

Post a Comment