Monday, December 17, 2018

Ashtapadi #18 in Sanskrit

घूर्जरी राग-यति-तालाभ्यां गीयते ।

हरिः अभिसरति वहति मधुपवने 
किम् अपरम् अधिकसुखं सखि । भवने ।
माधवे 
मा कुरु मानिनि । मानमये । 

तालफलादपि गुरुम् अतिसरसं
किमु विफलीकुरुषे नेत्रकमलम् ।
माधवे .,.....मानमये ।

कति न कथितम् इदम् अनुपदम्  अचिरं
मा परिहर हरिम् अतिशयरुचिरम् 
माधवे .............मानमये ।

किमिति विषीदति रोदिषि विकला
विहसति युवतिसाभा तव सकला
माधवे ............ मानमये ।

मृदु नलिनी दल शीतल शयने 
हरिम् अवलोकय सफलय नयने
माधवे........मानमये।

जनयसि मनसि किमिति गुरुखेदं 
श्रुणु मम वचन मनीहितखेदम् ।
माधवे ............... मानमये ।

हरि रुपयातु वदतु बहुमधुरं
किमिति करोषि हृदय मति विधरुम् ।
माधवे ..........मानमये ।

श्रीजयदेवभणितम् अति ललितं
सुखयतु रसिकजनं हरिचरितम् ।
माधवे ........... मानमये ।

No comments:

Post a Comment