Thursday, November 8, 2018

Sri ramasoundarya lahiri -Sanskrit

_सार्वभौममहाकविविरचिता_
*॥ श्रीरामसौन्दर्यलहरी ॥*

*रामाह्नि ते सदृशतां कमलानि दृग्म्यां        गन्तुं जलेषु वरदं समुपासतेsर्कम् ।*
*तत्कान्तिलेशमनवाप्य ततोsपि रात्र्यां शुष्यन्ति मीलनमिषादतिदु:खितानि ॥૪॥*

*पदविभाग:* 

राम अह्नि ते सदृशतां कमलानि दृग्म्यां गन्तुं जलेषु वरदं समुपासते अर्कम् तत् कान्तिलेशम् अनवाप्य तत: अपि रात्र्यां शुष्यन्ति मीलनमिषात् अतिदु:खितानि 



*अन्वय:* 
 हे राम! ते  दृग्म्यां   सदृशतां गन्तुम् कमलानि अह्नि जलेषु वरदं अर्कं समुपासते ।  तत: (तयो:) कान्तिलेशम् अपि अनवाप्य रात्र्यां अतिदु:खितानि मीलनमिषात् शुष्यन्ति ।
   

~ ✍ *शरवण:*

No comments:

Post a Comment