*॥ सप्तर्षिरामायणम् ॥*
_। सुन्दरकाण्डम् ।_
_गौतम: उवाच_
*दूतो दाशरथे: सलीलमुदधिं तीर्त्वा हनूमान् महान् दृष्ट्वाsशोकवने स्थितां जनकजां दत्वाsङ्गुलेर्मुद्रिकाम् ।*
*अक्षादीनसुरान् निहत्य महतीं लङ्कां च दग्ध्वा पुन: श्रीरामं च समेत्य देव जननी दृष्टा मयेत्यब्रवीत् ॥५॥*
*पदविभाग:*
दूत: दाशरथे: सलीलम् उदधिं तीर्त्वा हनूमान् महान् दृष्ट्वा अशोकवने स्थितां जनकजां दत्वा अङ्गुले: मुद्रिकाम् अक्षादीन् असुरान् निहत्य महतीं लङ्कां च दग्ध्वा पुन: श्रीरामं च समेत्य देव जननी दृष्टा मया इति अब्रवीत्
*अन्वय:*
दाशरथे: दूत: महान् हनूमान् उदधिं सलीलम् तीर्त्वा अशोकवने स्थितां जनकजां दृष्ट्वा अङ्गुले: मुद्रिकाम् दत्वा अक्षादीन् असुरान् निहत्य महतीं लङ्कां च दग्ध्वा पुन: श्रीरामं च समेत्य *देव! दृष्टा जननी मया* इति अब्रवीत् ।
~ ✍ *शरवण:*
No comments:
Post a Comment