॥ सप्तर्षिरामायणम् ॥
सर्वे ऋषय: उचु:
श्रीरामस्य कथासुधातिमधुरान् श्लोकानिमानुत्तमान् ये श्रृण्वन्ति पठन्ति च प्रतिदिनं तेSघौघविध्वंसिन: ।
श्रीमन्तो बहुपुत्रपौत्रसहिता भुक्त्वेह भोगांचिरं भोगान्ते तु सदार्चितं सुरगणैर्विष्णोर्लभन्ते पदम् ॥८॥
पदविभाग:
श्रीरामस्य कथासुधातिमधुरान् श्लोकान् इमान् उत्तमान् ये श्रृण्वन्ति पठन्ति च प्रतिदिनं ते अघ: ओघ विध्वंसिन: श्रीमन्त: बहुपुत्रपौत्रसहिता: भुक्त्वा इह भोगां चिरं भोगान्ते तु सदा अर्चितं सुरगणै: विष्णो: लभन्ते पदम्
अन्वय:
श्रीरामस्य कथासुधातिमधुरान् इमान् उत्तमान् श्लोकान् ये प्रतिदिनं श्रृण्वन्ति पठन्ति च ते अघौघविध्वंसिन: श्रीमन्त: बहुपुत्रपौत्रसहिता: इह भोगं चिरं भुक्त्वा भोगान्ते तु सदा सुरगणै: विष्णो: अर्चितं पदं लभन्ते ।
~ ✍ शरवण:
No comments:
Post a Comment