*॥ सप्तर्षिरामायणम् ॥*
_। उत्तरकाण्ड: ।_
_वसिष्ठ: उवाच_
*श्रीरामो हयमेधमुख्यमखकृत् सम्यक् प्रजा: पालयन् कृत्वा राज्यमथानुजैश्च सुचिरं भूरि स्वधर्मान्वितौ ।*
*पुत्रौ भ्रातृसमन्वितौ कुशलवौ संस्थाप्य भूमण्डले सोयोध्यपुरवासिभिश्च सरयूस्नात: प्रपेदे दिवम् ॥७॥*
*पदविभाग:*
श्रीराम: हयमेधमुख्यमखकृत् सम्यक् प्रजा: पालयन् कृत्वा राज्यम् अथ अनुजै: च सुचिरं भूरि स्वधर्मान्वितौ पुत्रौ भ्रातृसमन्वितौ कुशलवौ संस्थाप्य भूमण्डले स: अयोध्यपुरवासिभि: च सरयूस्नात: प्रपेदे दिवम्
*अन्वय:*
हयमेधमुख्यमखकृत् श्रीराम: प्रजा: सम्यक् पालयन् सुचिरं अनुजै: भूरि राज्यम् च कृत्वा अथ स्वधर्मान्वितौ पुत्रौ कुशलवौ भ्रातृसमन्वितौ भूमण्डले च संस्थाप्य स: अयोध्यपुरवासिभि: सरयूस्नात: दिवम् प्रपेदे ।
~ ✍ *शरवण:*
No comments:
Post a Comment