*॥ सप्तर्षिरामायणम् ॥*
_। युद्धकाण्डम् ।_
_जमदग्नि: उवाच_
*रामो बद्धपयोनिधि: कपिवरैर्वीरैर्नलाद्यैर्वृतो लङ्कां प्राप्य सकुम्भकर्णतनुजं हत्वा रणे रावणम् ।*
*तस्यां न्यस्य विभीषणं पुनरसौ सीतापति: पुष्पकारूढ: सन् पुरमागत: सभरत: सिंहानस्थो बभौ ॥ ६॥*
*पदविभाग:*
राम: बद्धपयोनिधि: कपिवरै: वीरै: नलाद्यै: वृत: लङ्कां प्राप्य सकुम्भकर्णतनुजं हत्वा रणे रावणम् तस्यां न्यस्य विभीषणं पुन: असौ सीतापति: पुष्पकारूढ: सन् पुरमागत: सभरत: सिंहानस्थो बभौ
*अन्वय:*
नलाद्यै: कपिवरै: वीरै: वृत: बद्धपयोनिधि: असौ राम: लङ्कां प्राप्य रणे सकुम्भकर्णतनुजं रावणम् हत्वा तस्यां विभीषणं पुन:
न्यस्य सीतापति: पुष्पकारूढ: सन् सभरत: पुरमागत: सिंहानस्थ: बभौ ।
~ ✍ *शरवण:*
No comments:
Post a Comment