Friday, November 16, 2018

Sanskrit simile

शतपत्रपत्रशतभेदन्यायः ।
-------------------------------

कमलदलं अतीव मृदुलं भवति। यदि शतानां कमलदलानां सूच्या भेदनं करणीयं तर्हि एकेन क्षणेन भेदनं कर्तुं शक्यते। वस्तुतः सूची एकैकस्य दलस्य भेदनं कृत्वा एव शतदलपर्यन्तं गच्छति। परन्तु द्रष्टुः मनसि एवं आयाति एकेनैव प्रयत्नेन शतदलानां भेदनं कृतम् इति। कर्त्रुः कुशलता दृश्यते अत्र। केनचित् जनेन यत् कार्यं कठिनं भासते तत् निपुणतया कष्टं विना अधिकसमयापेक्षां विना शीघ्रं क्रियते तादृशे प्रसङ्गे एतस्य न्यायस्य उद्धरणं भवति।

No comments:

Post a Comment