अरुन्धतीप्रदर्शनन्यायः।
-----------------------------
अस्माकं परम्परायां बहुषु स्थानेषु काश्चन आचाराः भवन्ति। विवाहसमये अरुन्धतीनक्षत्रदर्शनं इति कश्चन विधिः अस्ति। आकाशे सप्तर्षिमण्डले वसिष्ठः नाम तारकस्य समीपे अत्यन्तं लघु तारका भवति अरुन्धती । विवाहसमये वध्वाः कृते अरुन्धत्याः दर्शनं क्रियते। किन्तु अरुन्धती तारका अत्यन्तं लघु अस्ति इति कारणेन तस्याः साक्षात् दर्शनं न भवति।तस्याः दर्शनं किञ्चित् क्लेशकरं भवति। अतः आकाशे सप्तर्षिमण्डले विद्यमानः वसिष्टः नाम बृहतः तारकस्य दर्शनं प्रथमं कार्यते तदनन्तरं तस्य समीपे स्थितायाः अरुन्धत्याः दर्शनं कार्यते। यदा अपरिचितस्य क्लिष्टस्य विषयस्य कथनार्थं परिचितं सुललितं विषयं प्रथमं कथयति तदनन्तरं क्लिष्टविषयं प्रति गच्छति तदा अरुन्धतीप्रदर्शनन्यायस्य प्रयोगं भवति ।
No comments:
Post a Comment