Monday, November 5, 2018

Sanskrit joke

संस्कृते प्रहसनम्।😁😁😁


एका महिला मुम्बईमध्ये वृत्तिम् अधिगतवती।

सा एकाकिन्येव वृत्तियोगार्थं (joining) मुम्बईनगरं गता।

आस्थापनया तस्यै निवासाय सदनिकापि दत्ता।

सा चिन्तितवती,'अधुना पतिम् एनां वार्तां श्रावयामि यतः सः मद्विषये चिन्तां न अनुभवेत्।'

सा दूरभाषे एकं सन्देशं टङ्कितवती तथापि प्रमादात् तया सः सन्देशः अन्यामेव सङ्ख्यां प्रति प्रेषितः।

यः जनः तं सन्देशम् अध्यगच्छत् तस्य पत्नी इदमिदानीमेव मृता।तस्याः एव अन्तिमक्रियां विधाय सः गृहं प्रतिनिवृत्तः आसीत्।

पठिते एव सन्देशे सः मूर्छितः अभवत्। जनैः सः चिकित्सालयं प्रवेशितः।

सन्देशे लिखितमासीत्----

अहं सुखेनात्र प्राप्ता। अत्र निवासव्यवस्था अत्त्युत्तमा। चिन्ता मास्तु। अहं द्वित्रेभ्यः दिनेभ्यः अनन्तरं भवन्तम् अत्रैव निवासार्थम् आह्वयामि।

----भवदीयप्रिया।

😉😜😉😜

No comments:

Post a Comment