*शंकरभाष्यम्*
या निशा इति। या निशा रात्रिः सर्वपदार्थानां अविवेककरी तमः स्वभावत्वात् सर्वभूतानाम् सर्वेषां भूतानाम्। किं तत्? परमार्थतत्त्वं स्थित प्रज्ञस्य विषयः। यथा नक्तंचराणां अहः एव सत् अन्वेषां निशा भवति, तद्वत् नक्तंचरस्थानीयानां अज्ञा (नि) नां सर्वभूतानां निशा इव निशा परमार्थतत्त्वं। अगोचरत्वात् अतद्भुद्धीनाम्। तस्यां परमार्थतत्त्वलक्षणायां अज्ञाननिद्रायाः प्रबुद्धः जागर्ति संयमी संयमवान्, जितेन्द्रियः योगी इत्यर्थः। यस्यां ग्राह्यग्राहक (भेद) लक्षणायां अविद्यानिद्रा (शा) यां प्रसुप्तानि एव भूतानि जाग्रति इति उच्यन्ते (ते), यस्यां निशायां प्रसुप्ता इव स्वप्न दृशः, सा निशा अविद्यारूपत्वात् परमार्थतत्त्वं पश्यतः मुनेः इति। १-६९ (६९-१)
No comments:
Post a Comment