Thursday, November 15, 2018

Dasaratha - Sanskrit essay

कदाचित् सूर्यवंशीयः महाराजः दशरथः प्रजाः स्वप्रजाः इव पालयन् मुनीनां वनमध्यम् अभ्युषितानां वृत्तज्ञानाय निशीथ एव उत्थाय एकाकी सरयूतीरवर्तीनीम् अरण्यानीं जगाम । गत्वा च तत्र अन्धकारे अकाल एव एकतः जलेन पूर्यमाणस्य कुम्भस्य शब्दं शुश्राव । श्रुत्वा च कश्चित् उन्नत्तः द्विपः जनम् अवगाहत इति भ्रान्त्वा धनुषि दीप्तं शरं सन्धाय शब्दं प्रति तत् वधाय चिक्षेप । 

विद्धः च तेन इषुणा कोपि तपस्वी हा तात । हा मातः । इति ब्रुवन् भूमौ अपतत् । मनुष्यस्य इव स्वरसंयोगः इति विज्ञाय राजा सहसा एव तत्र उपगतः यतः शब्दः समागतः अभूत् । अपश्यत् च कुमारम् । कः भवान् मया नृशंसेन आहतः इत्येवं सकरुणं पृष्टः सः प्रत्यवदत् । राजन् । श्रवणः अस्मि नाम्ना । अत्र वने निवसता पितृसेवापरेण मया ते किम् अपराद्धं यत् एवं पित्रोः कृते जलम् आददानं माम् अकारणं मर्मसु प्रहृतवान् असि ।

अयं ते बाणः प्राणान् मे हिरहष्यति इति निश्चितम् अवेहि । अमोघाः ते बाणाः इति िह प्रसिद्धिः । किं करोमि । अामन्नं मे मरणम् । न च स्वं मरणं शोचामि । पितरौ तु शोचामि । यौ नेत्रान्धौ जीर्णाङ्कौ विवशौ पिपसाकुलौ मां प्रतीक्षमाणौ इतः न अतिदूरे तरुतले तिष्ठतः । जलं विना तौ कथं जीविष्यतः । नूनं प्राणान् त्यक्ष्यतः । अतः त्वं तूर्णतरम् उपसृत्य तौ जलं पायय इति अभ्यर्थये । माम् इदानीं मा शोचः । पितरौ मे विलम्बमानं मां शप्स्येते इित आशङ्कितः अस्मि । यतः । 

पुत्र आचारेण संविग्नौ पितरौ यदि शोचतः ।
नूनं तु नरके वासः तस्य इति प्रतिशुश्रुमः । 

तेन त्वम् इतः अविलम्बितं गत्वा मम ताताय यत् अत्रं वृत्तं तत् निवेदय । तं प्रसादय मां च विशल्यं कुरु इति एवम् उक्तः नृपः ताम्यतः तस्य बाणम् उदहरत् , स च प्रणान् अत्यजत् । 

ततः राजा जनपूर्णं घटम् आदाय कम्पमानगात्रः तत् स्थानं प्रति गन्तुं प्रवृत्तः । गच्छन् आत्मकृतं ब्रह्महत्यारूपं महत् पापम् अनुध्यायन् आत्मानं धिक्कृर्वाणं शापभीतः कथं कथम् अपि अन्धौ वृद्धतापसौ तौ उपगतः । 

तस्य पादशब्दं श्रुत्वा श्रवणजनकः अपि अभाषत । किं चिरयसि मे पत्र । पानीयं क्षिप्रम् आनय । त्व आयत्ताः नौ प्राणाः । देिह मे वाचम् । कथं न अभिभाषसे । इति वारं वारं व्याहृत्य विरते तस्मिन् परं लज्जितः दशरथः भीतभीतः सगद्गदम् उवाच भोः तपस्विनौ । न अहं श्रवणः , अहम् अस्मि तस्य निहन्ता दशरथः नाम पपात्मा अयोध्या अधिपः ।

श्रूयतां कथं स व्यसनम् उपेतः । नक्तं तमसि ते पूर्यमाणास्य कुम्भस्य शब्दं श्रत्वा सया हस्तिनःऋ एषः इति मिथ्या गृहीतः सद्यः च बासमोक्षः कृतः । तेन तु श्रवणः वक्षसि ताडितः प्राणैः च विना कृतः इति । अयम् उदकुम्भः । जनं पीत्वा पिपासां शमयतं कृतापराधमं च मां मर्षयतम् । अज्ञानकृतः अयम् अपराध इति क्षमाम् अर्हति । क्षमा हि महात्मानां भूषणम् । 

किञ्च । अतीतं मा शोचतम् . पुत्रवद् अहं युवां सेविष्ये । यावत् जीवं च युवयोः आज्ञाकारः भूत्वा यथासमीहितं चेष्टिष्ये इत्यंवं राज्ञः भाषितं श्रत्वा अपि न तौ शान्तिं लभेते , परं दशरथस्य एकैकम् अप्यक्षरं पुत्रवियोगेन खण्डितहृदययोः तयोः क्षते क्षारप्रक्षेप इव भवति । 

अथ स राजा तौ तापसौ तं प्रदेशम् आनाययत् यत्र तयोः श्रवणः मृतः अशेत । प्रज्ञाचक्षुषोः तयोः प्रज्ञापि प्रनष्टा ।, न हि तौ किम् इदानीं करणीयम् इति विचारियतुं पारयतः । एकतः निर्जनं वनम् , अपरतः नेत्रन्धौ , अथ एकपुत्रौ , तस्य अपि एवं मरणम् , महतीयम् अनर्थपरम्परा इत्येवं विचार्य मुहु महुः तौ मुक्तकम्ठम्, मोहं च अगच्छताम् । 

ततः तौ समाश्वस्य हा पुत्रक । हा तात । हा अऩ्धयोः यष्टे । क्व गतः असि नौ विहाय । किम् इदं न अभिवादयसे न च अभिभाषसे । किम् इति भूमौ शेषे । वत्स । किं कुपितः असि । कथं न अलिङ्गसि पुत्र । कथं वा नौ प्रितवचनं न ददासि । तो वा नौ कन्दमूलफलानि आहृत्य भोजयिष्यति । न पुनः कदापि एवम् अकाले जलादिनिमित्तं त्वां प्रेषयिष्यावः इत्येवं बहुविधं करुणम् आक्रन्दताम् । 

अथ दशरथेन सान्त्वितः तपस्वी दीर्घम् उष्णं च निश्वस्य पुनः अवदत् । राजन् । यत् एकपुत्रं माम् अपुत्रम् अकरोः , तेन त्वम् अिप पुत्रशोकेन कालं करिष्यसि । यस्मात् अज्ञानात् हतः त्वया मुनिः , तस्मात् त्वां ब्रह्माहत्या न स्प्रक्ष्यति । इति उक्त्वा स विरराम । 

ततः तत् मिथुनं चितां देहम् आरोप्य स्वर्गम् अभ्ययात् । श्रवणपितुः तानि वाक्यानि जाग्रतः स्वपतः वा दशरथस्य कदापि हृदयात् हदयात् न अपायन् । रामवनगमनसमये तु तानि मूर्तिमन्ति भूत्वा अतिष्ठन् । रामविरहेण एव कुरर इव विलपन् सः प्राणान् मुमोच । सत्यम् उक्तम् । 

यद् यद् आचरति धीमान् ज्ञानाद् अज्ञानतः अपि वा । 
समयं प्राप्य तत् नूनं प्रसह्य फलवद् भवेत् ।

No comments:

Post a Comment