Tuesday, November 27, 2018

7 vibhaktis sloka on Rama - Sanskrit

सर्वाषु विभक्तिषु राम:

रामस्सीतासमेतो निवसतु हृदये सानुजं राममीडे रामेण क्षीणपापस्त्रिविधमपि कृतं कर्म रामाय दद्याम् ।
रामादन्यं न जाने न हि किमपि वचो रामनाम्नस्समानं रामे पश्यामि विश्वं भुवनमनुदिनं पाहि मां वीरराम ॥

पदविभाग:

राम; सीतासमेत: निवसतु हृदये सानुजं रामम् ईडे रामेण क्षीणपाप: त्रिविधम् अपि कृतं कर्म रामाय दद्याम् रामात् अन्यं न जाने न हि किम् अपि वच: रामनाम्नस्समानं रामे पश्यामि विश्वं भुवनम् अनुदिनं पाहि मां वीरराम 

अन्वय:
सीतासमेत: राम:  हृदये निवसतु । 
सानुजं रामम् ईडे ।
रामेण क्षीणपाप: (अभवम्) ।
रामाय त्रिविधम् अपि कृतं कर्म  दद्याम् ।
रामात् अन्यं न जाने ।
रामनाम्नस्समानं वच: किम् अपि न हि ।
भुवनम् विश्वं रामे पश्यामि  । 
हे वीरराम! अनुदिनं मां पाहि । 


रामनाम्नस्समानं - रामनाम्न: समानम् 

~ शरवण:

No comments:

Post a Comment