Friday, October 26, 2018

Sanskrit joke

पत्नी (दूरभाषे) :- क्व अस्ति भवान्??

पतिः :- त्वं समीपस्थे चतुष्टये स्थितं स्वर्णकारस्य आपणं स्मरसि वा, यत्र त्वया एकः सुन्दरः कण्ठहारः दृष्टः आसीत्, तुभ्यं सः अतीव अरोचत अपि।

पत्नी (सहर्षं) :- आम् आम्। सम्यक् स्मरामि।

पतिः :- यं हारं क्रेतुं मत्सकाशं पर्याप्तं धनं नासीत् तदानीम्।

पत्नी (उत्कण्ठिता) :- आम् आम्। अवगतं मया ....

पतिः :- मया एतत् अपि उक्तम् आसीत् यत् एकस्मिन् दिने तव कृते तं स्वर्णहारं निश्चयेन क्रेष्यामि इति।

पत्नी :- आम् आम्। अहं सर्वं स्पष्टतया स्मरामि। अग्रे तु वदतु।

पतिः :- तेनैव स्वर्णकारेण ....

:

:

:

:

:

:

:

:

:

:

:

:

:

:

:

:

:

आर्थिकहानेः कारणात् आभरणस्य व्यवसायं स्थगयित्वा केशकर्तनालयम् उद्घाटितम् अस्ति। अत्र मम केशान् कर्तयित्वा गृहम् एकहोरानन्तरं प्रत्यागमिष्यामि। कृपया स्नानार्थं जलं उष्णीकृत्य सज्जं कुरु।

😂😂😂😂😂😂😂

No comments:

Post a Comment