हरि ॐ
नमोनमः
संस्कृतस्य विलोपस्य कारणम्
अधुना भारतवर्षे संस्कृतस्य बहु-प्रचार-प्रसारं भवति। केचन युवकाः संस्कृतस्य विकाशार्थं प्रचेष्टां कुर्वन्ति , किन्तु तेषां पाश्वे तादृशं ज्ञानं नास्ति , तदर्थं कदाचित् ते त्रुटि भवति । केचन संस्कृतविद्वान् जनाः तेषां मनोवलं भग्नं कुर्वन्ति , पुनः समालोचना अपि कुर्वन्ति , निन्दयन्ति। एवं उस्राहरहितं वाक्यं दृष्ट्वा ते अर्गे गन्तुम् असमर्थाः भवन्ति । एतादृशीं समस्यां दृष्ट्वा नूतनाः अपि कार्यं कर्तुं न इच्छन्ति । विद्वांसः जनाः केवलं पुजा-कर्मकाण्ड-गृहशिक्षाकार्ये सदैव लिप्ताः भवन्ति । अन्ये केचन विद्वांसः जनाः काव्यं रचनां कुर्वन्ति । ते काव्यं रचयित्वा स्वकीयः पाण्डित्यसिद्धिं कर्तुम् इच्छन्ति । क्लिष्टकाव्यं पठितुम् साधारण-जनाः असमर्थाः भवन्ति । तानि काव्यानि कः अपि न पठति एतादृशि समस्या दृष्ट्वा ते अपि काव्य रचयितुम् अपि न इच्छन्ति । तस्मिन् काव्ये काञ्चन् त्रुटिं दृष्ट्वा यदि कश्चित् निन्दयति तर्हि तेषामपि श्लोकरचना तत्र एव समाप्तं भवति।
केचन संस्कृतशिक्षकाणां मत-अनुसारं संस्कृतम् इत्युक्ते भवति (बालकः-बालकौ-बालकाः) । तेषां मतानुसारं ये बालकाः शब्दरूप-धातुरुप-आदि कण्ठस्थं कुर्वन्ति ते संस्कृतं पठितुम् समर्थाः ।
इदानीं तु अस्माकं समाजे विद्यालये छात्राः केवलं शब्दधातुरुपस्य अभ्यासं कुर्वन्ति । ते संस्कृतस्य महत्वविषये न जानन्ति । संस्कृतविषयग्रहणेन उत्तम-अकानि प्राप्तं भवति तदर्थं ते संस्कृतं पठन्ति । महाविद्यालये यः पठति सः केवलं सूत्र-अभ्यासकार्ये सदैव लिप्तं भवति । भारतवर्षस्य बहवः महाविद्यालयस्य संस्कृतछात्राः संस्कृतं वोधितुम् अपि न सक्षमाः । किन्तु ते परीक्षायाम् उत्तम-अकांनि प्राप्तं कुर्वन्ति ।
संस्कृत-शिक्षकानां लक्ष्यं भवति धनोपार्जनम् । ते विद्यालये महाविद्यालये छात्रान् न पाठयन्ति , तान् स्वगृहम् आहुय तत्र धन-उपार्जनं कुर्वन्ति । बहुषु विश्वविद्यालयेषु छात्राः अपि p•hd कुर्वन्ति किन्तु संस्कृतं वक्तुं न सक्षमाः ।
बहवः जनाः चिन्तयन्ति यत् संस्कृतं ब्राह्मणानां भाषा, देवभाषा , संस्कृतं भवति एक-समुदायस्य भाषा , संस्कृत पुरातनीभाषा इति तेषां मतम् । अधुना संस्कृतपठनेन धन-उपार्जनक्षेत्रे समस्या भवति तदर्थम् अपि बहवः बालकाः संस्कृतं न पठन्ति । यदि कोऽपि बालकः संस्कृतेन सह संगणकं विषये जानति तर्हि सः अवश्यं श्रेष्ठः जनः भविष्यति ।
केचन संस्कृत-शिक्षकाः स्वकीयः जीवनकालमध्ये धनोपार्जनां विहाय अन्य किमपि कार्यं न कुर्वन्ति । स्वकीयः जीवनकालमध्ये यदि ते दशसंस्कृतशिक्षाकाणां निर्माणं करिष्यन्ति तर्हि अवश्यं संस्कृतं लोकभाषा भविष्यति । यदा संस्कृतशिक्षकाणां परिवर्तनं भविष्यति तदा संस्कृतस्यापि परिवर्तनं भविष्यति ।
विद्वांसः जनाः यदि सरलसंस्कृतस्य प्रचारार्थं कार्यं करिष्यन्ति तर्हि साधारणजनाः संस्कृतस्य महत्वं ज्ञातुं समर्थाः भविष्यन्ति पुनः संस्कृतभाषायाः अपि प्रचारं भविष्यति ।
जयतु संस्कृतम्
सुनील कुमार पाणिग्राही
No comments:
Post a Comment