Friday, October 26, 2018

Golden necklace-Sanskrit essay

*स्वर्वाणीप्रकाशः (वाट्साप् गणः)*
👸🏻गुरुवासरः भाद्रपदकृष्णतृतीया (27-09-18)✨
✍प्रस्तावविषयः-- स्वर्णहारः 💫


पुष्पमाला, रत्नमाला लोहनिर्मितमाला रुद्राक्षादि वस्तूनां माला कपालमाला!! एवं प्रकारेण हाराः विविधाः भवन्ति। लोहनिर्मितासु मालासु सुवर्णमाला एव जनप्रिया माला। न तु केवलं माला अपितु सर्वाणि सुवर्णाभरणानि लोकप्रियाणि नारीणां प्राणतुल्यानि च। लोके ताः  मूल्ययुक्तानि च सन्ति। सुवर्णमालासु सुवर्णकारस्य कलावैभवानुगुणं विविधाकारसहिताः भवन्ति।अत्रैव  खलु नारीणां दृष्टिं गच्छति!! 

मालायाः निर्माणं सङ्कीर्णम् अस्ति।सुवर्णकारा इदानीम् आभरणानां निर्माणे बहूनां यन्त्राणां प्रयोगं कुर्वन्ति। आभरणानां वैविध्यम् अनन्तमेव तस्मिन् विषये चर्चां कर्तुं तावत् सरलं नास्ति। अतः सुवर्णस्य विषये चिन्तयाम:।। 

प्राचीनकालादेव सुवर्णं मनुष्याणां प्रियलोहः।धनाढ्यस्य ऐश्वर्यस्य च प्रतीक अयं पीतवर्णलोहः।। 

हिरण्यम् अतीवविशेषयुक्तलोहः। 

साधारणतापे अयं लोहः निष्क्रिय अर्थात् तदानीं प्रतिप्रवर्तनं किमपि न प्रकटयति।। 

सूक्ष्मातिसूक्ष्मतरं सूत्ररूपम् अपि अनेन निर्मीयते। तथैव लोलपत्ररूपेणापि परिवर्तयितुं शक्यते। एतेषां गुणानाम् कारणादेव आभरणनिर्माणे सुवर्णलोहः योग्यो भवति। 

कनकस्य उपयोगः न तु केवलम् आभरणनिर्माणे सङ्गणकादि वौद्युतोपकरणेषु बहिराकाशयानेषु विविधचिकित्साप्रक्रियासु किमधिकं खाद्यपदार्थेषु एवं सर्वासु मेखलासु अस्य उपयोगो भवति।। 

संशुद्धेन स्वर्णेन आभरणनिर्माणं सुलभं नास्ति तदर्थम् इतरलोहैः योजयित्वा सङ्करलोहस्य निर्माणं क्रियते। लोहसङ्करार्थं काञ्चनम् उत्तमम् अस्ति अयम् अपरः गुणः स्वर्णस्य। स्वर्णस्य शुद्धताया आधारेण एव तस्य मूल्यं भवति। आगोलविपण्याम् एतदर्थं परिमाणानि सन्ति।सुवर्णकांक्षिणः क्रयणात् पूर्वमेव एतत्सर्वं किञ्चित् पठनीयं नोचेत् वञ्चिताः भवितुम् अर्हन्ति।। 

सुवर्णस्य सान्द्रता अधिका अस्ति अतः भूमे अतीवान्तर्भागे प्रथमपटले एव अस्यलोहस्य सानिध्यम् अधिकं दृश्यते तत्तु ततः स्वीकर्तुम् अशक्यमेव।धूमकेतूनां सदृशानां भौमेतर- पिण्डेषु स्वर्णस्य सानिध्यं दृश्यते भूतले  प्राचीनकाले अनेकाः धूमकेतवः पतिताः तादृशेषु प्रदेशादेव स्वर्णस्य खननम् अधुनावधि प्रचलिम्। यद्यपि समुद्रजलेऽपि स्वर्णस्य सानिध्यम् अस्ति तथापि ततः स्वीकर्तुम् अतीवदुष्करम्।।

 एका एव स्वर्णमाला बहूनां मनसि विविधाः भावनाः जनयन्ति। 
स्त्रियः तस्याः सौन्दर्यं तथा स्वर्णमालाम्  एव पश्यन्ति!! पुरुषाः तस्या मूल्यम् स्वकोषञ्च!!  आपणिकाः लाभप्राप्तिं पश्यन्ति! चोराः कुबुद्ध्या पश्यन्ति! वैज्ञानिकाः लोहघटनां पश्यन्ति तां मालां वैराग्यनिधयः सिद्धाः पाषाणतुल्यं पश्यन्ति।। 


🙏🙏🙏

- सुनीशः

No comments:

Post a Comment