*स्वर्वाणीप्रकाशः (वाट्साप् गणः)*
🌷रविवासरः भाद्रपदशुक्लचतुर्दशी (23-09-18)🙏
✍प्रस्तावविषयः--
*अनन्तचतुर्दशी*🌺
भाद्रपदमासस्य शुक्लपक्षस्य चतुर्दशी अनन्तचतुर्दशी इति प्रसिद्धा अस्ति। गणेशोत्सवस्य अनन्तरम् अस्मिन् दिने एव आघोषपूर्वं गणेशविग्रहस्य निमज्जनं कुर्वन्ति जनाः। अनन्तो नाम भगवान् विष्णु अतः दिनेऽस्मिन् भगवतः विष्णो आराधनं विशेषतया भवन्ति। कुटुम्बजनानाम् अभिवृद्ध्यर्थं स्त्रियः व्रतम् आचरन्ति।।
*अनन्तचतुर्दश्याः कथा*
पूर्वं सुमन्तो नाम कश्चन ब्राह्मण आसीत् तस्य पत्नी दीक्षा। द्वावपि धार्मिकौ भक्तौ च आस्ताम् । कालान्तरे तयो एका पुत्री जाता तस्याः नाम सुशीला इत्येवासीत्। सुशीला अपि तस्याः मातृवत् धार्मिका भक्ता च आसीत्। सुशीलायाः कौमारावस्थायाम् एव तस्या माता दीक्षा दिवंगता। किञ्चित् कालानन्तरं परिवारस्य परिपालनार्थं सुमन्तः कर्कशा इति अन्याम् एकां कन्यां परिणयं कृतवान्।दुष्टा कर्कशा निरन्तरं सुशीलां पीडयति स्म किन्तु सुशीला शान्ता स्वभावगुणयुक्ता च आसीत्।एवं सुशिलायाः विवाहकाल आगतः सुमन्तः तस्याः विवाहं कौण्डिन्यमहर्षिणा साकं कारितवान्। कालान्तरे कर्कशाया उपद्रव अधिको जातः तेन सुशीला कौण्डिन्यश्च अन्यत्र गतवन्तौ। तयोः जीवनं कष्टपूर्णम् आसीत्।एकदा गृहविहीनौ तौ रात्रौ एकस्मिन् नदीतीरे विश्रान्तिं कृतवन्तौ। अग्रिमदिने नदीतीरे काश्चन स्त्रियः अनन्तपूजार्थम् आगताः ताः परस्परं रक्षासूत्राणि बन्धयित्वा विष्णोः पूजां कृतवत्यः। सर्वं दृष्ट्वा सुशीला अस्याः पूजाया महत्त्वं पृष्टवती। ताः सविस्तरम् अनन्तचतुर्दश्या महिमाम् एवं व्रताचरणविधिञ्च सम्यक् तां बोधितवत्यः। अस्य व्रतेन कष्टानि नश्यन्ति मनोकामनाः सफला भविष्यन्ति इति ज्ञात्वा
विधिवत् अनन्तचतुर्दश्या आचरणं कृतवती सुशीला। अनेन व्रताचरणेन विष्णोरनुग्रहेण च तस्याः कौण्डिन्यस्य च जीवनं सुखमयं जातम्। भगवतः अनुग्रहेण तयोः धनराशिः धान्यराशिश्च अत्यधिको भवतः। अथैकदा सुशीला भगवतःविष्णोः कृपया एव आवयोः जीवनं सुखमयं जातमिति कृतज्ञतापूर्वम् उक्तवती एतत् श्रुत्वा कोपाविष्ट महर्षिः भार्यायाः वचनं स्वस्य अपमाननम् इति मत्वा अनन्तसूत्रं निष्कास्य ताम् भृशं तर्जितवान्। कालक्रमेण पुनः तयोः जीवनं कष्टकरं जातम्। भगवतः विष्णो: निन्दा एव मम दुःस्थितेः कारणम् इति ज्ञात्वा कौण्डिन्यः सुशीलया सह पुनः चतुर्दशवर्षपर्यन्तं विधिपूर्वकम् अनन्तचतुर्दश्या आचरणं कृत्वा भगवत अनन्तनारायणस्य वरप्रसादेन पुनः जीवने शान्तिं समृद्धिञ्च प्राप्तवन्तौ।।
भगवान् कृष्णः पाण्डवानां वनवासकाले कौरवाणाम् उपरि विजयप्राप्यर्थम् अस्य व्रतस्य आचरणविधिं पाण्डवान् बोधितवान्। तदनुगुणम् अनन्तचतुर्दश्याः पालनेन पाण्डवाः युद्धे विजयं प्राप्तवन्तः। पुरातनकाले राजा हरिश्चन्द्र अपि अस्य व्रतस्य आचरणं कृत्वा कीर्त्तिं विभूतिञ्च आप्नोत् इत्यपि ज्ञातुं शक्नुमः।।
एवम् अनन्तचतुर्दश्याः कथा पुराणे वर्णिता अस्ति। सर्वेभ्यः अनन्तचतुर्दशीपर्वणः शुभाशयाः।।
🙏🙏🙏
- सुनीश् नम्बूतिरि
No comments:
Post a Comment