Friday, September 21, 2018

Sanskrit sloka on Krishna with 8 vibhaktis

हरिःॐ। नमस्ते आचार्यः। नमः सर्वेभ्यः॥

कृष्णशब्दः श्लोकरूपेण।

कृष्णो रक्षतु मां चराचरगुरुं कृष्णं नमस्याम्यहम्
कृष्णेनामरशत्रवो विनिहताः कृष्णाय तस्मै नमः।
कृष्णादेव समुत्थितं जगदिदं कृष्णस्य दासोऽस्म्यहम्
 कृष्णे भक्तिरचञ्चलाऽस्तु भगवन् हे कृष्ण तुभ्यं नमः॥

*कृष्णः* मां रक्षतु। 
*कृष्णं* चराचरगुरुं अहं नमस्यामि।
*कृष्णेन* अमरशत्रवः विनिहताः।
*कृष्णाय* तस्मै नमः।
*कृष्णात्* एव जगत् इदं समुत्थितम्।
*कृष्णस्य* दासः अस्मि अहम्।
*कृष्णे* अचञ्चला भक्तिः अस्तु।
*हे कृष्ण* भगवन्। तुभ्यं नमः॥

धन्यवादः। सर्वं कृष्णार्पणम्॥

No comments:

Post a Comment