Thursday, September 13, 2018

Sanskrit is easy

*"संस्कृतं सरलम्"*
*अभिव्यक्ते: प्रमुखं साधनं भवति भाषा । सा च देशाधारिता क्षेत्राधारिता वा भवति ।*
*उक्तञ्च "यथा देशस्तथा भाषा" इति वचनात् प्रत्येकं देशे क्षेत्रे वा एका विशिष्टा भाषा भवति ।*
*सा भाषाSपि देशस्य विभिन्नेषु प्रदेशेषु भिन्न-भिन्नासु उपभाषासु विभक्ता भवति  परं सा विशिष्टा* 
*भाषा कस्यचिद्देशस्य* 
*परम्पराश्रिता संस्कृत्याश्रिता वा भवति ।*
*अर्थात् सर्वेषां देशानामेका स्वकीया सांस्कृतिकी भाषा भवति ।* *यस्यां भाषायामेव सृष्टिकालादारभ्य साम्प्रतं यावत् समग्रं साहित्यं वर्णितम्भवति।*
*यथा-चीनदेशे चीनीभाषा, जर्मनीदेशे जर्मनभाषा, यूनानदेशे ग्रीकभाषा एवं लैटिनभाषा, तथा भारतदेशस्य संस्कतञ्चादिभाषात्वेन प्रसिद्धा वर्तन्ते ।* *भारतदेशस्य समग्रेतिहास: प्राचूर्येण संस्कृत एव प्राप्यते ।* *अत: संस्कृतमेव भारतस्य सांस्कृतिकी भाषेत्युच्यते ।*
          *वयं समेSपि जानीम एव सर्वासां भाषाणां द्विविधं रूपं प्राप्यते एकं साहित्यदृष्ट्या अपरञ्च लौकिकव्यवहारदृष्ट्या ।*  *संस्कृतेSपि द्विविधं रूपमुपलभ्यते ।*
*सस्कृतभाषा आदिकालादारभ्य बहुवर्षं यावत् जनानां व्यवहारस्य भाषासीदित्यस्मिन् विषये* *अस्मद्ग्रन्थेषु अनेकानि प्रमाणानि प्राप्रन्ते ।यथा-* *पाणिनिव्याकरणे "तीर्थध्वाङ्क्ष:", "खट्वारूढो जाल्म"श्चेत्यादिनिन्दावचनैस्तथा "भार: बाधति " ," काव्यं करोमि न हि चारुतमं करोमि" चेत्यादिप्रसङ्गै: स्पष्टो भवति यत् संस्कृतभाषा प्राचीनकालादारभ्य बहुकालं यावद् व्यवहारभाषासीत् ।*
*या च भाषा व्यवहारपथे भवति सा भाषा सरला भवति ।*
*अत: संस्कृतभाषा पुरा सरला भाषा आसीत् परं मध्यकाले* *अनेकेषां वैदेशिकानामाक्रमणात्*
*संस्कृतं व्यवहारभाषाया: स्वस्थानं पर्यत्यजत् ।*
             *अत: साम्प्रतं जनानां धारणा मानसिकता वाभवत् यत् संस्कृतं कठिनं परं संस्कृते यावत्सारल्यमस्ति तावन्नास्ति अन्यासु भाषासु ।* 
*बह्वीषु भाषासु व्यवहारस्य सामान्यो नियमोSस्ति यत् कर्तृ+कर्म+ क्रिया परं संस्कृते तादृश: कश्चिन्नियमो नास्ति ।* *यथा- राम: पुस्तकं पठति, राम: पठति पुस्तकं , पठति पुस्तकं राम:, पठति राम: पुस्तकं, पुस्तकं पठति राम:, पुस्तकं राम: पठति इत्यादिषु वाक्येषु पदपरिवर्तनेनापि अर्थपरिवर्तनं न भवति इत्यपि प्रमाणं वर्तते संस्कृतस्य सारल्यस्य ।*
*संस्कृतं सरलमिति* *प्रमाणीकरोति एकं संस्कृतगीतम्-*
*"सुरससुबोधा विश्वमनोज्ञा*
*ललिता हृद्या रमणीया ।*
*अमृतवाणी संस्कृतभाषा*
*नैव क्लिष्टा न च कठिना ।।"*
*अन्यच्च संस्कृतभारत्या: विंशतिहोरात्मक:*
*संस्कृतसम्भाषणपाठ्यक्रमोSपि*
*स्फुटीकरोति यत् संस्कृतं यावत्सरलम् वर्तते नास्ति तावत्सरला अन्या भाषा काचित् ।* *यत: विंशतिहोरासु एव कश्चिदपि जन: यथा संस्कृतसम्भाषणं कर्तुं शक्नोति न तथा अपरभाषासम्भाषणम् ।*
                *उपर्युक्ततथ्यानामाधारेण वक्तुं शक्यते यत् संस्कृतं सरलमासीत् वर्तते भविष्यति च ।अत: संस्कृतं सर्वासां भाषाणामपेक्षया सरलं वर्तत इति मन्मति: ।*
*#स्वच्छभाषाभियानम्*
*#सुरभारतीसमुपासका:*
*#संस्कृतभारती*
*(जयपुरमहानगरम्)*
*#दीपकवात्स्य:*

No comments:

Post a Comment