Thursday, September 13, 2018

Kedareswarar Sanskrit sloka

*ॐ श्रीकेदारनाथाय नमः॥जय श्रीगणेश ॥*
🕉🌹🌹🌹🌳🌹🌹🌹🕉
*महाद्रिपार्श्वे च तटे रमन्तं*
*सम्पूज्यमानं सततं मुनीन्द्रैः ।*
*सुरासुरैर्यक्षमहोरगाढ्यैः*
*केदारमीशं शिवमेकमीडे ॥*
🚩🚩🚩🚩🚩🚩🚩🚩🚩

       *_🌹यः महागिरेः हिमालयस्य पार्श्वे केदारशृङ्गस्य कूले सर्वदा निवसन् मुनीश्वरैः पूज्यते । देवता असुराः यक्षाः महासर्पादयः चापि यम् अर्चन्ति तम् एकं शुभकर्तारं भगवन्तं श्रीकेदारनाथम् अहं स्तौमि(ईडे)।_*
🌾🌾🌾🌾🌾🌾🌾🌾🌾

       🌴=जो महागिरि हिमालय के पास केदारशृङ्ग के तट पर सदा निवास करते हुए मुनीश्वरों द्वारा पूजित होते हैं तथा देवता , असुर , यक्ष और महान् सर्प आदि भी जिनकी पूजा करते हैं उन एक कल्याणकारक भगवान् केदार का मैं स्तवन करता हूँ ॥
⛳⛳⛳⛳⛳⛳⛳⛳⛳

*🌷भगवान् केदारनाथः हिमालयस्य पार्श्वे निवसति ।*
*🌷तत्र एकं केदारशृङ्गस्य नाम्नः कूलम् अस्ति ।*
*🌷तस्मिन् एव कूले केदारनाथः निवसति ।*
*🌷सदैव तं मुनीश्वराः पूजयन्ति ।*
*🌷केदारनाथस्य पूजां सुरासुराः यक्षाहयः च प्रभृतयः अपि कुर्वन्ति ।*
*🌷केदारनाथः कल्याणकारकः अस्ति ।*
*🌷वयं तस्य केदारनाथस्य स्तुतिं कुर्मः ।*

*जयतुसंस्कृतम् ॥ जयतुभारतम् ॥*

No comments:

Post a Comment