Thursday, August 30, 2018

Films in sanskrit

☘☘☘☘☘☘☘☘☘☘

*संस्कृतचलचित्राणि*

*१९८३-आदिशङ्कराचार्यः।*
दिग्दर्शकः-- जी.वी.अय्यरः।

एतत् जगतः प्रथमं संस्कृतचलचित्रम्। एतेन सर्वोत्तमचलचित्रपुरस्कारेण सह
आहत्य चत्वारि राष्ट्रियपारितोषिकानि जितानि।

*१९९३- श्रीमद्भगवद्गीता।*

दिग्दर्शकः--जी.वी.अय्यरः।
सर्वोत्तमचलचित्रमिति राष्ट्रियपुस्कारः एतेन अधिगतः।

*२०१५--प्रियमानसम्।*

दिग्दर्शकः--विनोदमङ्कारा।
सर्वोत्तमसंस्कृतचलचित्रपुरस्कारं जितवत्।
ईफ्फी (IFFI) संस्थायाः षट्चत्वारिंशत्तमे अन्ताराष्ट्रियचित्रपटोत्सवे
एतत् प्रदर्शितमभवत्।

*२०१६-- इष्टिः।*

दिग्दर्शिका--जी.प्रभा।
सप्तचत्वारिंशत्तमे ईफ्फीसमारोहे भारतीयसार्वदर्शनीविभागे (Indian
Panorama Section) एतत् प्रारम्भकारि चलचित्रम् अभूत्।

*२०१७--सूर्यकान्ता।*

दिग्दर्शकः-- एम्.सुरेन्द्रन्।
प्रथमम् समकालदर्शी (contemporary) संस्कृतचलचित्रम्।
केरलचलचित्रसमीक्षकसङ्घपारितोषिकेषु (Kerala Film Critics' Association
Awards) विशिष्टसमीक्षकपारितोषिकम् (Special Jury Awards) अध्यगच्छत्।

*२०१७--अनुरक्तिः।*

दिग्दर्शकः--पी.के.अशोकन्।
प्रथमम् त्रिमितिसंस्कृतचलचित्रम् (3D Samskrit Film)। गीतयुतं प्रथमम्
संस्कृतचलचित्रम्। अष्टचत्वारिंशत्तमे ईफ्फीसमारोहे प्रदर्शितम्।

*२०१८--पुण्यकोटिः।*

दिग्दर्शकः--वी.रविशङ्करः।
प्रथमं विचित्रप्राणितं संस्कृतचलचित्रम्। (Animated Samskrit Movie)

https://youtu.be/IYAOs-9NCsM
https://youtu.be/cq9GUmXH2MI
https://youtu.be/fRpeMDGhp_A
https://youtu.be/wRKsrsPpbNk
https://youtu.be/OWX9aNQXN3I

No comments:

Post a Comment