सर्वनामप्रयोगः
*तद्* शव्दस्य प्रयोगः
एकवचनम्
*सः* शिक्षकः(कर्त्तरीप्रथमा) ।
*तं* पण्डितः इति वदन्ति(कर्मणिद्वितीया)
*तेन* छात्राः पठ्यन्ते(अनुक्तेकर्त्तरीतृतीया)
*तस्मै* नमः(नमः योगेचतुर्थी) ।
*तस्मात्* सर्वे भयं कुर्वन्ति(भयार्थेपञ्चमी) । *तस्य* नाम राजीवः(शेषेषष्ठी) ।
*तस्मिन्* छात्राः अनुरक्ताः(अनुरक्तयोगेसप्तमी)
द्विवचनम्
*तौ* शिक्षकौ । *तौ* पण्डितौ इति वदन्ति । *ताभ्यां* छात्राः पठ्यन्ते । *ताभ्यां* नमः । *ताभ्यां* सर्वे भयं कुर्वन्ति । *तयोः* नामे राजीवः लोचनः च । *तयोः* छात्राः अनुरक्ताः ।
वहुवचनम्
*ते* शिक्षकाः । *तान्* पण्डिताः इति वदन्ति । *तैः* छात्राः पठ्यन्ते । *तेभ्यः* नमः । *तेभ्यः* सर्वे भयं कुर्वन्ति । *तेषां* नामानि राजीवः लोचनः नन्दः च । *तेषु* छात्राः अनुरक्ताः ।
(यद्,एतद्,किम्,इदम्,सर्व)
No comments:
Post a Comment