Friday, July 6, 2018

Sri saradambam bhaje - HH. Bharati teertha mahaswamigal

॥ श्रीशारदाम्बागीतम् ॥

रचयिता - श्री भारतीतीर्थमहास्वामी
देवता - श्रीशारदाम्बा

श्रीशारदाम्बां भजे श्रितकल्पवल्लीम् ।
कारुण्यवारांनिधिं कलिकल्मषघ्नीम् ॥
 
इन्द्रादिदेवार्च्यपादाम्बुजातां ईशित्वमुख्याष्टसिद्धिप्रदात्रीम् ।
ऊहापथातीतमाहात्म्ययुक्तां मोहान्धकारापहस्वाभिधानाम् ॥१ ॥
 
श्रीशङ्कराचार्यसंसेवितांघ्रिं श्रीश्रृङ्गगिर्याख्यपुर्यां वसन्तीम् ॥
श्रीवाग्विभूत्यादिदानप्रवीणां श्रीभारतीतीर्थहृत्पद्मवासाम् ॥ २ ॥
 
॥ इति श्रीशारदाम्बागीतम् ॥


No comments:

Post a Comment