Monday, July 23, 2018

Spoken Sanskrit camp anubhava kathanam

संस्कृतभारतम्। समर्थभारतम्।

संस्कृत भाषा केवलं देवानां भाषा अस्ति इति जगति श्रूयते अस्माभि:। परंतु एषा भाषा केवलं देवानां भाषा नास्ति इति उत्तर प्रदेश संस्कृत  संस्थानेन संचालितं दशदिनात्मकं सरल-संस्कृत-संभाषण-शिविरं गत्वा  जनै: पठ्यते। न केवलं पठ्यते वद्यते च अपितु अनेन सह हि संस्कृति: ज्ञास्यते। एतस्य शिविरस्य उद्घाटनावसरे मुख्यातिथिरूपेण आगत: एकस्मिन् विद्यालये आंग्लभाषाया: अध्यापक: जगतसिंहमहोदयः स्वस्य विचारान् प्रकट्यन् उक्तवान् या कापि भाषा अस्माकं विकासं कर्तुम् शक्नोति , अस्माकं चारित्रिक उन्नति: कर्तुम् शक्नोति सा भाषा संस्कृतभाषा। 
यस्याम् भाषायाम् एकः अपशब्द: अपि न वर्तते तां भाषां जीवने अंगीकृत्य अस्माभि: सफलता प्राप्नीया। 
आंग्लभाषाया: उच्चारणसमानता संघणकस्य कृते अस्पष्टा इति उक्तवा सर्वेषाम् बालकानां कृते संस्कृत भाषा आवश्यकी अतः पठितुं अधिकाधिकसंख्या आगच्छेत्।
शिविरस्य समयः सायं चतुर्वादनत: सायं षट्वादन पर्यंतं स्थापित:।
शिविरस्य स्थानं विनोदत्यागीमहोदयस्य गृहं स्थापितम्।
उद्घाटने छात्रसंख्या प्रायः ३० आसीत्।
शिविरं जूनमासस्य षट्विंशति: दिनांकत: जुलाई पञ्चदिनांक पर्यंतं चलिष्यति। अत्र प्रशिक्षक: शशीकान्त: शिक्षकश्च सचिनः सन्ति। शिविरे अन्यकार्यकर्तार: मनीषेन मञ्चसंचालितम्।

🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳
जयतुसंस्कृतम्। जयतुभारतम्।

No comments:

Post a Comment