Thursday, July 5, 2018

Sati-saptami -simple sentences I Sanskrit

सतिसप्तमी।

          सति सप्तमी अथवा भावलक्षणसप्तमी इति कश्चन विशेषप्रयोगः अपि अस्ति । एकस्य कर्तुः , कर्मणः वा क्रियाकालः अन्यक्रियायाः कालं बोधयति चेत् तत्र सप्तमीविभक्तिः कर्तृपदे भवति । एवं कर्मणि प्रयोगः चेत् कर्मपदे सप्तमी विभक्तिः भवति । कर्तृविशेषणेsपि सप्तमी विभक्तिः भवति । 'रामे वनं गते दशरथः दुःखितः' इत्यत्र रामस्य वनगमनकालेन दशरथस्य दुःखकालः सूचितः । तदा कर्तृपदस्य रामशब्दस्य तस्य विशेषणस्य गत शब्दस्यापि सप्तमीविभक्तौ प्रयोगः ।

१ .     *व्याघ्रे* नगरं *प्रविष्टे* जनाः भीताः अभवन् ।

२ .     *अलङ्कृतेषु* *गजेषु* *आगतेषु* शिशवः अतुष्यन् ।

३ .     *बालकयोः* उद्यानं *प्रविष्टयोः* सुहृदः आगच्छन् ।

४ .     *सचिवेषु* *समागतेषु* जनाः हस्तताडनम् अकुर्वन् ।

५ .     *बिडाले* *आगते* शुकः पञ्चरं प्राविशत् ।

६ .     *निर्वाचने* *आसन्ने* जनाः उत्सुकाः जाताः ।
—गणान्तरादुपलब्धम्।

No comments:

Post a Comment