Friday, July 6, 2018

Sanskrit joke

अन्तिमेच्छा!!!


जीवनस्य अन्तिमदिनानि यापयन् पोपः विजयमाल्यं, नीरवमोदिं च वैटिकनदेशे चिकित्सालयम् आहूतवान्।


तत्र प्राप्तौ उभौ तौ पोपस्य प्रकोष्ठं नीतौ। अर्चकः प्रकोष्ठे प्रविश्यमाणौ तौ अङ्गुलिनिर्देेेेशेन पोपस्य उभयतः उपवेष्टुम् प्रार्थितवान्।


पोपः उभयोः हस्तौ स्पृष्टवान्। महत्याः सन्तुष्टेः भावः आसीत् तस्य मनसि। प्रसन्नचित्तसा , कृतकृत्यमनसा स्मयमानः सः स्थिरदृष्ट्या छदं निरीक्षितवान्। कानिचन क्षणानि यावत् सर्वे निभृताः आसन्।


पोपस्य अन्तिमक्षणे तेन तयोः सान्निध्यं निवेदितम् अनेन उभयोः अपि बहुः श्लाघितः, भावुकः च अभासत। पोपेन तयोः विषये कापि रुचिः नैव प्रकटितपूर्वा न कोऽपि आदरभावः प्रकाशितपूर्वः, तद्यपि तौ कथं चितौ इति तयोः विस्मयाय।


अन्ते च विजयमाल्येन पोपः पृष्टः एव, "पोपपितः , भवता आवाम् उभौ एव किमर्थम् आमन्त्रितौ?"



पोपः सर्वधैर्यम् आधाय शान्तचित्तसा अभणत्, "क्रिस्तस्य उभयतः अपि मृत्युसमये द्वौ चोरौ आस्ताम्। अहमपि तद्वदेव मरणम् कामये।"

🤣🤣🤣🤣🤣🤣🤣🤣

No comments:

Post a Comment