Wednesday, July 25, 2018

Sanskrit joke

अथैकदा अस्माकं अभियांत्रिकमहाविद्यालये (यत्राहं कार्यं करोमि स्म) *अभियन्तृदिनं* कार्यक्रमः आयोजितः आसीत् । तदा मुख्यातिथिः आसीत् एकः ज्येष्ठः अभियन्तृप्राध्यापकः। तेन कथीतमेतद् ।👇

कस्यचित् अभियान्त्रिकमहाविद्यालयस्य एका छात्रचमूः प्रकल्पनिमित्तं (project) कञ्चिद्ग्रामं गतवती आसीत्। 
प्रकल्पार्थं तैः चितम् आसीत्  ग्रामीणजनैः श्रमदानेन निर्मितस्य ग्रामसमीपस्थस्य एकस्य दुर्गममार्गस्य सर्वेक्षणम् । 
अत्याधुनिकोपकरणैः सज्जैः तैः छात्रैः
सर्वेक्षणम् सम्यक्तया कृतम्। कार्यस्य परिशीलनं कुर्वद्भिः छात्रैः साश्चर्यम्  अवगतं यत् ग्रामीणजनैः सुष्ठु , निर्दोषम् उत्कृष्टम् अभियन्तृपरम्परानुगुणं (as per norms & conventions ) कार्यं कृतम् आसीत्। 

छात्रैः आश्चर्येण पृष्टं " कथं भवद्भिः सर्वं साधितम् , विशेषतः मार्गस्य आरोहावरोहादि सर्वम् ? "

" सर्वं सरलं सुकरं च ! " ग्रामीणाः सहजतया उक्तवन्तः ।

" कथम् ??? " इति छात्राः ।

" पश्यन्तु ! वयम् एकं गर्दभं तत्र नयामः । तस्य पृष्ठायां प्रभूतं भारं स्थापयित्वा तं गर्दभं चालयामः। सः यया     दिशा चलति तदनुगुणं वयं मार्गेण यथा चलति तदनुगुणं वयं
दृढं मार्गं निर्मामः ।"  इति ग्रामीणाः।

" परं यदि गर्दभः नैव प्राप्येत तर्हि  ? " सकुतूहलं छात्राः पृष्टवन्तः ।

तदा ... तदा... 

*" वयम् कञ्चन अभियन्तारम् आह्वयामः !!! "* इति ग्रामवासिनः ।

😉😛😝😜😀😃😄🤪😂🤣

No comments:

Post a Comment