Monday, July 2, 2018

Sanskrit joke

Many thanks to Sri.S.L.Abhyankar ji for proof - reading..

को भाग्यवान्?*

तरुणी ज्योतिषालयं गत्वा दैवज्ञं प्रति! 

श्रीमन्! धर्मसङ्कटे पतिताऽस्मि यतोऽहं तरुणद्वयं सुनिलं अनिलञ्च बहु स्निह्यामि। तौ उभौ अपि उत्तमौ तर्हि  कं स्वीकरिष्यामि ? तयोः मध्ये को भाग्यशाली अस्‍तीति  किञ्चित् विचिन्त्य सूचयतु। 

दैवज्ञः किञ्चित् कालं चिन्तयित्वा अवदत् चिन्तनेन सर्वं स्पष्टम् अवगतवान्। ध्रुवं सुनीलः अतीव भाग्यवान् यतः भवती अनिलमेव विवाहं करिष्यति

No comments:

Post a Comment