Friday, July 27, 2018

Samskrta bharathi - An article in sanskrit

संस्कृतभारती -
इति काचित् संस्था या च संस्कृतस्य संरक्षणार्थं, संवर्धनार्थं, प्रसारणार्थं च अविच्छिन्नरूपेण निरन्तरं कार्यं कुर्वती अस्ति। एतस्याः प्रधानकार्यालयः देहल्यां विद्यते। जगति संस्कृतभाषां व्यावहारिकाभाषात्वेन आनेतुं श्रममाणा अस्ति एषा संस्था।
कार्यलक्ष्यम् -
संस्कृतस्य सर्वतोमुखविकासं सम्पाद्य भारतस्य सर्वाङ्गीणोन्नतिसम्पादनमेव "संस्कृतभारत्या:" चरमं लक्ष्यम्। दूरगामिलक्ष्यमिदं साकारीकर्तुम् अपेक्षितस्य देशव्यापिन:, विशालस्य, गुणसम्पन्नस्य, शक्तिशालिन: 'संस्कृतभारती'-नामकस्य जनसङ्घटनस्य निर्माणं समीपवर्तिलक्ष्यं वर्तते। परं सङ्घटनस्य प्रत्येकस्य घटकस्य तु लक्ष्यं भवति संस्कृतस्य साधनरूपेण उपयोगं कृत्वा राष्ट्रोन्नतिः साधनीया।

१) व्यावहारिकभाषारूपेण पुनरानयनम् -
चतु:शतात् वर्षेभ्य: पूर्वं विश्वे ५००० भाषा: आसन्। इदानीम् उपद्विसहस्रा: सन्ति। व्यवहार: परित्यक्त: इत्यत: 3000 भाषा: विनष्टा:। व्यवहारह्रासादेव सहस्राधिका: भाषा: विनाशपथे सन्ति। संस्कृतभाषा नित्यव्यवहारस्य भाषा करणीया इति।

२) शैक्षिकपरिवर्तनम् -
सर्वकारीयनीतिपरिवर्तनं तु बहुसमयसाध्यम्। शैक्षिकं चिन्तनं प्रयोगश्च प्रत्यक्षत: परोक्षत: वा अस्माकं संस्कृतज्ञानाम् अधीनानि भवन्ति। अत: शैक्षिकपरिवर्तनं प्रारम्भबिन्दु: भवितुम् अर्हति। संस्कृत-शिक्षणे 'संस्कृतस्य शिक्षणं' भवेत्, न तु केवलं संस्कृतस्य विषये, वाङ्मयसम्बन्धे वा। संस्कृतशिक्षणविधे: गुणवत्ता, पाठ्यपुस्तकानां गुणवत्ता, शिक्षकाणां गुणवत्ता इति त्रिषु अंशेषु गुणवर्धनाय प्रयत्न: भवेत्। संस्कृतस्य संस्कृतमाध्यमेन पाठनं भवेत्। संस्कृतशिक्षणे प्राचीनार्वाचीनयो: उभयो: अपि विषययो: सङ्गम: भवेत्। कक्ष्यासु संस्कृतभाषाशिक्षणं तावद् आकर्षकं करणीयं यद् सर्वे छात्रा: संस्कृतमेव स्वीकुर्यु:, तावद् प्रभावी करणीयं यद् सर्वे छात्रा: संस्कृतेन भाषितुं लेखितुं च समर्था: भवेयु:, तावद् प्रेरणादायी करणीयं यद् सहस्रश: छात्रा: पश्चात् शास्त्राध्ययने प्रवृत्ता: भवेयु:।

३) स्वाध्ययनसामग्रीनिर्माणम्
अभ्यासस्य पूरकरूपेण पुस्तकानि, ध्वनिमुद्रिका:, 'डिविडि' इति त्रिविधा: सामग्र्य: अत्यन्तम् आवश्यक्य:। तासु अपि बहुवैविध्यानि भवेयु:। यथा - शिक्षार्थिनां वयानुगुणं, शैक्षिकपृष्ठभूम्यनुसारं, वृत्त्यनुसारं, रुच्यनुसारं च विभिन्नानि पुस्तकानि भवितुम् अर्हन्ति। विभिन्नविषयाणां द्वारा शिक्षणाय बहुविधानि पुस्तकानि, भाषाशिक्षणस्य विभिन्नविधीनां द्वारा शिक्षणाय पुस्तकानि, संस्कृत-वाङ्मयस्य विविधांशानां शिक्षणाय पुस्तकानि, व्याकरणस्य एकैकं प्रकरणम् अधिकृत्य पुस्तकानि - इत्येवंप्रकारेण सहस्राधिकविधपुस्तकानि भवितुम् अर्हन्ति। तावन्ति एव सान्ध्रमुद्रिकाः, ध्वनिमुद्रिका: च भवेयु: ।

४) सान्ध्यशिक्षणकेन्द्राणि
संस्कृताभिमानिन:, संस्कृतपिपठिषव: च समाजे असंख्या: सन्ति। स्थाने स्थाने, नगरे नगरे, ग्रामे ग्रामे सान्ध्यशिक्षणकेन्द्रम् आरब्धव्यम्। तत्र बहुविधा: कक्ष्या: भवन्ति - प्रारम्भिका: कक्ष्या:, प्रगतपाठ्यक्रमा:, विविधविषयाणां शिक्षणकार्यक्रमा: चेति। स्वल्पकालिका: दीर्घकालिका: च पाठा:।

५) शास्त्रशिक्षणम् -
संस्कृतभाषाध्ययनं नाम प्रथमसोपानम्। काव्याध्ययनं द्वितीयं सोपानम्। वास्तविकं संस्कृताध्ययनं नाम शास्त्राध्ययनम् एव। समग्रसंस्कृतवाङ्मयस्य नवनीतभूतं तु शास्त्राणि। भारतीयं ज्ञानम् इति कथ्यमानं तत्रैव वर्तते। परन्तु अद्यत्वे शास्त्राध्येतार: विरला:। सुष्ठु अध्यापयितार: तु विरलतरा:। सा शास्त्रपरम्परा नष्टा चेद् भारतस्य सर्वस्वमपि नष्टमिव। अत: अस्माभि: शास्त्राध्ययनसम्बन्धे विशेषचिन्तनं करणीयम्। सर्वेऽपि तदर्थं प्रेरणीया:। केचन प्रतिभावन्त: छात्रा: एतदर्थं चेतव्या:, शास्त्राध्ययने योजनीया:, अपेक्षितम् अर्थव्यवस्थादिकं कर्तव्यं च। शास्त्रपरिचायकशिबिराणि, शास्त्रार्थचिन्तनगोष्ठ्य:, शास्त्रकक्ष्या:, शास्त्रपरीक्षा: इत्यादय: स्थाने स्थाने आयोजनीया:। प्रतिशास्त्रं व्युत्पन्ना: युवविद्वांस: निर्मातव्या:।

६) नवसाहित्यनिर्माणम्
यथा जना: गतसप्ताहस्य दिनपत्रिकां पठितुं न इच्छन्ति। अत: संस्कृते अपि अद्यतनजगत: सम्बद्धानां विषयाणां नवं साहित्यं स्रष्टव्यम्। तत्रापि बालसाहित्यं, मनोरञ्जनसाहित्यं, कथासाहित्यं, विज्ञानसाहित्यम् - इत्येवं साहित्यस्य विविधप्रकाराणां निर्माणं करणीयम्। सृष्टे नवसाहित्ये अद्यतनसन्निवेशा:, अद्यतनविषया:, अद्यतननामानि, अद्यतनं जीवनम्, अद्यतनी वैज्ञानिकी प्रगति: इत्यादिकं प्रतिबिम्बितं स्यात्। अद्यत्वे विश्वे सर्वासु अपि भाषासु महोन्नतसाहित्येषु अपि सरलतमभाषाया: प्रयोग:, गद्यात्मकता इति एतद् अंशद्वयं प्रचारे अस्ति। तदुभयमेव जनै: इष्यते, तथैव लिख्यते च। अत: संस्कृते अपि वाचकरुच्यनुगुणं सरलतमसंस्कृतेन प्रणीतं गद्यात्मकम् अभिनवं साहित्यं स्रष्टव्यम्। एतस्मिन् कार्ये अनुवाद:, अनुकरणं, सर्जनम् इति सोपानत्रयं भवितुम् अर्हति।

७) दूरस्थशिक्षणम् -
संस्कृतभारत्या: द्वारा पत्राचारमाध्यमेन संस्कृतस्य पाठनस्य व्यवस्था कतिपयेषु राज्येषु अस्ति। यथा यथा शक्ति: वर्धेत तथा तथा सर्वेषु अपि राज्येषु एषा व्यवस्था आरब्धा भवितुम् अर्हति। पत्राचारमाध्यमेन बहूनां संस्कृतविषयाणां बहुविधपाठ्यक्रमा: भवितुम् अर्हन्ति। अन्तरजालमाध्यमेन शिक्षणम्, वाहिनीभिः संस्कृतशिक्षणम् इत्येतादृश्य: काश्चन महाव्यवस्था: अपि करणीया:।

कार्यक्रमाः -
लक्ष्यसाधने कार्यक्रमाः साधनभूताः भवन्ति। कार्यक्रमः एव उद्देशः न, उद्देशार्थं कार्यक्रमः भवति। विचारप्रचारः, भाषशिक्षणं, कार्यकर्तृनिर्माणं, धनसङ्ग्रहः, नूतनक्षेत्रप्रवेशः, उत्साहवर्धनं, सङ्घटनं, कार्यस्य दृढीकरणम् इत्यादीन् विविधान् उद्देशान् साधयितुं तदनुगुणं कार्यक्रमान् रूपयामः। स्थानीयस्तरे कर्तुं योग्याः कार्यक्रमाः, जिला-महानगर-विभाग-राज्यस्तरेषु कर्तुं योग्याः कार्यक्रमाः इति अत्र द्विधा दद्मः।

स्थानीयस्तरे -
सम्भाषणशिबिरम्
साप्ताहिकमेलनम्
संस्कृतदिवसः संस्कृतसप्ताहश्च
प्रतियोगिताः (स्पर्धाः)
संस्कृतबालकेन्द्रम्
सान्ध्यशिक्षणकेन्द्राणि
विविधजयन्त्यः/सामाजिकसमरसतादिनम्
पत्रालयद्वारा संस्कृतशिक्षणम्
संस्कृतगृहम्
स्नेहमेलनम् / कौमुदीकार्यक्रमः
संस्कृतप्रवासः
संस्कृतसन्ध्या
प्रदर्शिनी
शोभायात्रा
वीथीनाटकम्
वीथीभाषणम्
सम्भाषणशिबिरप्रात्यक्षिकाणि
सन्देशाभियानम्
सम्पर्कसप्ताहः / सम्पर्कपक्षः
छात्रशिक्षणशिबिरम्
स्वाध्यायशिबिरम्
संस्कारशिबिरम् / ग्रीष्मशिबिरम्
मण्डल/महानगर/विभाग/राज्यस्तरे
संस्कृतभाषायाः संरक्षणार्थं एते कार्यक्रमाः आयोजनीयाः। ते क्रमशः भवन्ति।
अभ्यासवर्गः
भाषाबोधनवर्गः
शिबिरचालकप्रशिक्षणवर्गः
व्याकरणवर्गः
संस्कृतगृहसम्मेलनम्
शिक्षकसम्मेलनम्
छात्रसम्मेलनम्
महिलासम्मेलनम्
शास्त्रगोष्ठी / शास्त्रवर्गः
संस्कृतविज्ञानकार्यक्रमाः
शैक्षिककार्यशाला
नाटकोत्सवः
सम्भाषणोत्सवः / शिबिराभियानम्
व्यक्तित्वविकासशिबिरम् (नेतृत्वप्रशिक्षणम्)।

No comments:

Post a Comment