*कैलासयात्रानुभवः*
विहारप्रियाः खलु मानवाः। बहवो जनाः प्रकृतेः सौन्दर्यं द्रष्टुं यात्रां कुर्वन्ति केचन केवलं भोगोल्लासार्थम् अपराः शान्त्यर्थं इतरा आत्मीयसाक्षात्कारार्थं वा पुण्यार्थं वा तीर्थाटनं कुर्वन्ति। एवं यात्रा: बहुविधा: सन्ति।कदा यात्रा साफल्यं भवति इति पृष्टे सति वक्तुं शक्नुमः यदा यात्रया अस्माकं मनोकामनाः पूर्यन्ते मनसि तृप्तिर्जायते कृतार्थभावो निर्गम्यते तदा एव यात्रायाः साफल्यम्।।
यथा यत्राः बहुविधास्तथैव यात्रिका अपि
तेषां जिगमिषाऽपि विभिन्ना स्यात्। प्राचीनकालादेव भारतदेशः आध्यात्मिकबोधस्य देशः ननु।अत एव स्युः भारतीयाः केवलं भौतिकविहारस्योपरि स्वल्पमधिकतया आत्मीयप्रयाणेषु तत्पराः दृश्यन्ते। विभिन्न जीवितसाहचर्येषु वर्तमानाः सन्ति चेदपि तेषाम् अन्तरङ्गे भारतीय- पुराणधर्मग्रन्थतत्त्वानि कथाश्च निहिताः दृश्यन्ते। बाल्यकाले एव अस्माकं कुटुम्बे बालानां मनसि विविधकथामाध्यमेन धर्मबुद्धिं जनयन्ति ज्येष्ठाः कालान्तरे सा एव बुद्धिः वर्धिता भविष्यति क्रमेण शात्रजिज्ञासारूपेण परिवर्तिता जायते। व्यक्तीनां विकासाय एषा एव चिरकालपद्धतिः भारतीयानाम्।।
प्रायः सर्वेषु भारतीयेषु विशिष्य हैन्दवेषु पुराणेतिहास-कथापात्राणि तेषु सूचितानि स्थानानि च दृढं तिष्ठन्ति। तीर्थेषु अटनम् अस्माकं प्राचीनशीलः। पुराणकथास्वपि महापुरुषाणां तथा देवीदेवानाञ्च तादृशाः तीर्थयात्राः सुष्ठु वर्णिताः। पूर्वजन्मनः कर्मसंस्कारसहिताः खलु वयं? तीर्थाटनद्वारा पापक्षयं भवतीति अस्माकं विश्वासः। तादृशानि अनेकस्थानानि भारते तथा समीपदेशेषु च सन्ति। कैलासः तादृशेषु तीर्थेषु अन्यतमं सुप्रधानतीर्थस्थानम्। कैलासः भगवान् शिवस्य स्थानमिति पुराणकीर्त्तितम्।
भगवान् शिवः प्रपञ्चनाथः कैलासः प्रपञ्चकेन्द्रश्च। भूरिभाग्येनैव कैलासगमनं साध्यमिति पूर्वजैः प्रोक्तम्। लेखोऽयं तादृशमेकां महासौभाग्यावस्थायाम् एव लिखन्नस्मि। यात्रानुभः संस्कृतेन एव लिखितव्यमिति कृतनिश्चितोऽस्मि। यतो मम आध्यात्मिकविचारस्य आधारः संस्कृतमातुरनुग्रहादेव जातः। संस्कृतेन एव ईदृशेषु विषयेषु आसक्तिरपि विवर्धिता जाता। आवाच्यानुभः कथं वा अन्यभाषाम् उपयुज्य विवरणं कर्तुं शक्नुमः। यद्यपि संस्कृते निपुणो नास्मि तथापि गीर्वाण्या अल्पमेव वदामिश्चेदपि तस्याः प्रभावेण कथनं तत् महत्तमं भवतीति मे दृढविश्वासः।।
कैलासजिगमिषा गतपञ्चषट्-वर्षेभ्यः मम मनसि उद्भूता आसीत्। २०१८ जून् मासस्य २१ दिनाङ्कतः ३० दिनाङ्कपर्यन्तं यात्रां कृत्वा सा मनोकामना भगवतः परमेशस्य अनुग्रहेण पूरिता जाता इति वक्तुं भूरिधन्यताम् अनुभवामि।।
परशुरामक्षेत्रात् केरलात् सद्गमया इत्येकस्याः संस्थायाः नेतृत्वे आसीत् कैलासप्रयाणम्। भार्गवक्षेत्रात् भवक्षेत्रगमनम् अस्यां यात्रायां ३९ शिवबान्धवाश्चापि आसन्। सम्बोध् संस्थायाः मुख्याचार्याः श्री श्री अध्यात्मानन्द स्वामिनां सानिध्यं यात्रायां लब्धवन्तः इत्यपि सौभाग्यविषयः। तेषां नामानुगुणम् स्वामिनां मार्गनिर्देशेन यात्रायाम् आध्यात्मिकम् आनन्दं सर्वे अनुभूतवन्तः तेषाम् अनुग्रहेण यात्रा इतोऽपि धन्या सफला च जाता।
जून् मासस्य २१ दिनाङ्के भारतात् नेपालदेशस्य नेपाल्गुञ्ज् गत्वा अग्रिमदिने ततः लघुवायुयानेन सिमिक्कोट् (Simikot) इत्यत्र गतवन्तः। इयं यात्रा सुमनोज्ञा आसीत् यतो मेघावृताकाशात् पर्ववतस्य हरिताभां दृष्ट्वा गन्तुं शक्नुमः स्म। तदा एव हिमगिरेः विहारस्य प्रारम्भः जात मनः हर्षभरितश्चाभवत्। सिमिक्कोट् तः हिल्सा इति नेपालदेशस्य सीमाप्रदेशपर्यन्तं helicopter यानेन गतवन्तः।
सा यात्रा तु अविस्मरणीया आसीत्। पर्वतानाम् उपरि विहगसञ्चारं कृत्वा कस्य वा हृदयं न तुष्यति?। (समानमार्गे प्रत्यागमनसमये प्रकृतेः भिन्नं मुखं दृष्टवन्तः तदग्रे वदिष्यामि)
सिमिक्कोट् त: वातावरणस्य परिवर्तनं आरब्धम्। शैत्यात् तथा वायुप्रवाहात् शरीरस्य रक्षणार्थं प्रत्येकवस्त्राणि धृतवन्तः।।
तत्र एकस्मिन् लघु वाससमुच्चये भोजनादिकं कृत्वा किञ्चित् कालं विश्रमं कृतवन्तः। इत आरभ्य यात्रायां मध्ये मध्ये पर्याप्तविश्रमः करणीय एव इति सूचनाम् अस्माकं मार्गनिर्देशकाः दत्तवन्तः यतः वातावरणानुगुणम् अस्माकं शरीरस्य तादात्म्यं कैलासयात्रायाम् अत्यन्तापेक्षितमस्ति।
यात्रायाम् अस्माकं सहायार्थं ८-१० जनाः sherpas (केचन विभागीयाः ये जनाः उन्नतः पर्वतारोहणे निपुणाः मुख्यतः नेपालसमीपदेशस्थाः) मार्गदर्शकाः आसन्। ते शिवभूतगणा इत्येव यात्रायाम् अनुभवामि स्म। यत्र वयं पादाभ्यां चलितुमपि अतिकष्टम् अनुभूतवन्तः तादृशेषु दुर्घटपर्वतमार्गेषु स्कन्धयोः यात्रिकाणां भारयुक्तस्यूतं संस्थाप्य सहायहस्तं प्रसारयन्ति ते। तेषां सामीप्यं तीर्थाटकानां कृते महादेवस्य सान्त्वनमित्येव
अनुभूतम् ।।
कैलासः टिबेट् प्रदेशे वर्तते तथापि चीनादेशस्य अधिकारे एव खलु प्रदेश अतः चीनादेशस्य सुदीर्घनिबन्धनस्य सहनं अस्माभिः करणीयमेव। मध्ये मध्ये तेषां customs कार्यालये रोधनं भवति स्म। वारं वारम् एतत् कष्टकरमेव एतदर्थं रसिकाः अस्माकं सहयात्रिकाः केचन "कष्टं office! " इत्येव वदन्ति स्म। एवं द्वितीयदिनस्य यात्रायाः परिसमाप्तिः तक्क्लकोट्ट् (Thaklakot) इत्यत्र जाता। अस्मिन् स्थाने उत्तमं वासस्थानं परिकल्पितम् आसीत्। शारीरिकसामरस्यार्थं दिनद्वयं तत्रैव वासः पूर्वनिशचितः। तक्क्लकोट् समुद्रस्तरात् ३७८५ मीटर् उन्नतस्थानम् शैत्यमपि अधिकं वर्तते। प्राणवायोः न्यूनताकारणतः शीघ्रमेव श्रान्ताः भवन्ति जनाः।।
उन्नतभूप्रदेशेषु निवास अस्माकं शरीरे विविधानां रोगाणां कारणाय भवति । अतः निर्देशानुसारं सर्वे औषधं तथा आवश्यकसुरक्षां च स्वीकृतवन्तः।।
कैलासयात्रा एका साधारयात्रा नास्ति। कैलासमाहात्म्यं, भगवतः परमेश्वरस्य कथाः शिवनामजपमाहात्म्यम् एवम् नैके अंशाः स्मर्तव्याः। अस्माकं यात्रायां समयासमये सत्सङ्गं कारयित्वा स्वामिनः यथोचितं सर्वं वर्णनं कृतवन्तः।।
अग्रिमे दिने तक्क्लकोट्ट् तः वयं मानससरोवरं प्रति बस् यानेन प्रस्थितवन्त आस्म। मार्गे भगवतः शिवस्य कीर्तनानि कथाश्च उक्त्वा यात्रायाः सार्थक्यं सम्पादितवन्तः।।
त्रिघण्टाभ्यन्तरे वयं राक्षसतटाकनिकटं प्राप्तवन्तः। तत्रैव जातं प्रथमम् अनुपमं कैलासदर्शनम्। राक्षसतटाके पूर्वं रावणः स्नानं कृतवान् आसीत् इत्येव पुराणकथा अतः तत्रत्य जलम् अपवित्रं विषमयमित्येव विश्वासः।एवञ्चेदपि विशालं सरोवरम् अतिसुन्दरं दृश्यते स्म। जलाशयस्य तीरे उपविश्य विदूरथकैलासकान्तिं पश्यन्तः वयं दक्षिणामूर्त्तिस्तोत्रं जपं कृतवन्तः। सूर्यस्य तापकिरणा अस्माकं कृते वरदानमेवासीत्।
शीतलवातावरणे अधिकं समयं यापितुम् अस्माकं निर्देशका अनुमतिं न दत्तवन्तः यतः सायंकालात् पूर्वं शीघ्रमेव मानससरोवरं गत्वा स्नानं करणीयम् आसीत्।।
*मानससरोवरः* (समुद्रस्तरात् ४७५८ मीटर् उन्नतस्थानम्)
राक्षसतटाकत अनतिदूरे वर्तते मानससरः। विशालं मनोभिरामं कैलासतुल्यप्रधानं मानससरोवरं दृष्ट्वा सर्वे अत्यन्तं विस्मिता अभवन्।
कैलासशिखरे राम मनसा निर्मितं सरः।
ब्रह्मणा प्रागिदं यस्मात्तदभून्मानसं सरः॥
-रामायणे
प्रायः तदानीं तत्र शैत्यं ३- ६ ॰C एव स्यात्।
ततः दूरस्थं कैलासं स्पष्टं द्रष्टुं प्रभावामः स्म। तत् दृश्यं न तु साधारणं। पञ्चाक्षरीमन्त्रं जपन् शीघ्रमेव अहं सरोवरे पूर्णं स्नानं कृतवान्। चीनसुरक्षाभटाः तडागे साक्षात् स्नानं निषिद्धं कृतवन्तः तावता मम स्नानं समाप्तम् आसीत्। एवं पूर्णतया तस्मिन् पुण्योदके निमज्जनस्नानं कर्तुं भाग्यं केचन एव प्राप्ताः। अन्ये शिरसि तीर्थप्रोक्षणस्नानं साधितवन्तः।।
तीर्थस्नानान्तरं किञ्चित् कालं विश्रान्तिं स्वीकृत्य भोजनोत्तरं मानससरोवरपरिक्रमणार्थं बस् यानेन गतवन्तः। ८० चतुरश्र किलोमीटर् विस्तृतं मानसतीर्थम् विविधभागतः दृष्टवन्तः। मानससरोवरः विविधभावयुक्तः विविधाः जलजन्तवः स्वर्णवर्णपक्षिणश्च तटाके विहरन्ति स्म।।
सायंकाले सर्वत्र शीतवायोः तीव्र प्रवाह आरब्धः। अनेन बहिः स्थातुम् अशक्तोऽभवम्। सन्ध्या समये मनोज्ञसरोवरतीरे किञ्चित् कालम् अटितवान् किञ्चित् ध्यानं कृतवान्। तटाकमेव पश्यन् सर्वं विस्मृतवान् आसम्। रात्रौ १० वादनपर्यन्तं सूर्यकान्तिः सर्वत्र प्रसृता एवासीद् इति कैलासयात्रायां अपरः विस्मयानुभः।।
अग्रिमदिने मृत्युञ्जयहोमः निश्चितश्चासीत्। अस्यां यात्रायां रात्रौ प्रायः सर्वेषां निद्रा न्यूना एव भवति। प्रकोष्ठे प्राणवायोः न्यूनता कारणतः स्यात्। रात्रौ अति शैत्यं च अनुभूयते। प्रातःकाले ६ वादने एव उत्थाय होमार्थं किञ्चित् सहायकं कार्यं कृतवान्। सरोवस्यतीरे होमपर्यवसानपर्यन्तं सर्वे सहयात्रिकाः नामजपे निरता आसन्। पूजायाः समर्पणसमये मेघपटलं दूरीकृत्य दूरे कैलासदर्शनं जातम्। सर्वे भक्त्या निर्भरा अभवन् साक्षात् परमेश्वरस्य प्रसादप्राप्त्या वयं सर्वे कैलास परिक्रमणार्थं यमद्वारं प्रति निर्गता: ।।
*कैलासपरिक्रमणम्* (समुद्रस्तरात् ४८६० मीटर् उन्नतस्थानम्)
कैलासयात्रायाः मुख्यम् आचरणम् एतदेव कैलासप्रदक्षिणम्। दिनत्रयाभ्यन्तरे ५५ किलोमीटर् दूरं चलित्वा एव कैलासपरिक्रमणं साध्यं भवति। प्रथमदिनपरिक्रमणं प्रायः तावत् कष्टं न भवति १४ किलोमीटर् दूरमस्ति। अस्माकं गणात् ९०% जनाः प्रथमदिनपरिक्रमणं कृतवन्तः। केचन शारीरिकसमस्याकारणतः प्रदक्षिणस्य आरम्भस्थानं यमद्वारपर्यन्तम् आगत्य कैलासपतिं प्रणम्य निर्गताः। केचन अश्वानाम् उपरि प्रयाणं कृतवन्तः। प्रथमदिनपरिक्रमणस्य प्रायः सम्पूर्णसमयेऽपि कैलासस्य विविधानि मुखानि भावान् च द्रष्टुं शक्नुमः। यात्रिकाः यमद्वारतः कैलासं पश्यन्त एव सञ्चारं कृतवन्तः तथा मनसि प्रार्थना भाव एवासीत्। परस्परं ॐ नमःशिवाय इति वदन्तः शिवभक्ताः गच्छन्ति स्म मनसि शङ्करस्य चित्रम् सर्वं शिवमयचिन्तनं मध्ये यदा यदा पादयोः शक्तिक्षयं प्राप्तवान् तदानीं प्रत्यक्षशिवरूपं कैलासं दृष्ट्वा भक्त्या नत्वा अग्रेगमनं करोमि स्म। तस्मिन् पर्वतभूमौ
किञ्चिदपि प्रयत्नेन शरीरं नितरां क्षीणं गच्छति। कैलासे शरीराभिमानं पूर्णं नश्यति इत्येव गुरोः पूर्ववचनं तत्तु सत्यमेव। केवलं शिवार्पितमनसः शक्तिरेव अग्रे नेष्यति मम शरीरं इति वदामि तर्हि किञ्चिदपि अतिशयोक्तिर्नास्ति।।
प्रथमदिनपरिक्रमणं दिरापुक् (Dirapuk) इति कैलासस्य उत्तरमुखस्य पुरतः समापनं भवति। रात्रौ तत्रैव वासो जातः।कैलासस्य उत्तरभागस्य दर्शनम् अतीव हृद्यं नयनाभिरामञ्चास्ति। रात्रौ चन्द्रः नक्षत्राणि च आकाशे कान्तिं प्रसारयन्ति स्म। तदानीं रात्रौ कैलासस्य सौन्दर्यं वर्णनातीतम्। भस्माङ्गितशिवलिङ्गसदृशं कैलासं रात्रौ प्रभां प्रसारयति स्म।।
द्वितीयदिनपरिक्रमणम् अत्यन्तं दुष्करम् आपत्करञ्च। अस्माकं गणे कोऽपि कर्तुं न इच्छति स्म। यद्यपि शरीरबलस्य विषये मम मनसि शङ्का आसीत् तथापि परिपूर्णाप्रदक्षिणं कर्तुम् इच्छा आसीत्। रात्रौ अस्माकं ज्येष्ठाः मार्गदर्शकाश्च अस्य कार्यस्य वैषम्यं वारं वारं मां बोधितवन्तः। द्वितीये तृतीये दिने च कैलासदर्शनं प्रदक्षिणसमये न भवति अतः कैलासचरणस्पर्शन- स्थानगमनमेव उचितम् अविस्मरणीयं भवतीति षेरप्पाजनाः अस्मान् बोधितवन्तः। तदनुगुणं परिक्रमणचिन्तनं त्यक्त्वा प्रातःकाले कैलासचरणस्पर्शनस्थानं गन्तुं वयं निश्चितवन्तः।।
*कैलासचरणस्पर्शनम्*
कैलासचरणस्पर्शनस्थानं प्राप्तुं प्रथमदिनस्य परिक्रमणस्य आवासस्थानात् ( दिराप्पुक् तः) साक्षात् ४- ५ किलोमीटर् उपरि गन्तव्यम्। कैलासस्य उत्तरमुखं पश्यन् मन्दम् उपरि गतवान्। प्रत्येकं पदम् अत्यन्तं कष्टकरं पर्वतस्य उपरि गमनम् इत्यनेन जीववायोः दौर्लभ्यम् अधिकं जायमानम् आसीत्। दूरे कैलास्य दर्शनं भवति स्म तावता बालसूर्यस्य किरणैः कैलसः सुवर्णपर्वत इव जातः। शिवस्वरूपस्य कैलासस्योपरि भस्माभिषेकानन्तरं प्रकृतेः कनकाभिषेक इत्येव मम मनसि भावना जाता।
उपरि गमनमार्गे अभिषेकतीर्थमिव कैलासात् हिमजलं प्रवहति स्म। किञ्चित् तीर्थं भगवतः चरणदर्शनात् पूर्वमेव स्वीकृतवान् यतः मनसि विचारं कृतवान् यद् मम प्राक्तनः पापानि नश्येयुः अनेनैव भगवतः चरणं द्रष्टुं सौभाग्यं कायबलं च प्राप्नोमि इति।
हिमावृतभूमेः कारणात् अतिशैत्यात् शिरो वेदाना च प्रारब्धा। क्रमेण गमनमार्गे जलप्रवाह अधिको जातः अनेन मार्गः दुष्करः जातः। अन्यमार्गावलम्बेन दैर्ध्यं स्वल्पं वर्धितं यद्यपि केवलं १ मीटर् अधिकं भवतिचेदपि १ किलोमीटर् इत्येव अनुभवामि स्म। मध्ये मध्ये अतिशैत्येन वा प्राणवायो समस्यातः वा निद्राम् अनुभवामि स्म। पूर्वमेव सूचितं मार्गे निद्रा कदापि न करणीया एतादृशेषु स्थलेषु निद्रा कदाचित् अस्माकं मरणाय एव भवति यतः शरीरस्य प्रतिकरणं निश्चलं भवति रक्ते जीववायोः ह्रासात् प्राणापायं भवतीति सूचनां प्राप्तवन्तः। प्रत्यक्षशिवगणस्वरूपा: षेरप्पा जनाः मार्गे निरन्तरं परिरक्षाम् अकुर्वन् यात्रिकान् अग्रे नयन्ति स्म। घण्डात्रयानन्तरं चरणस्पर्शनस्थानं प्राप्तवान्।
मनसा वचसा च अहमपि मम नमस्कारान् कैलासेश्वराय समर्पितवान्। आनन्दभक्त्या गद्गदो जातः तस्मिन्नवसरे करणीयं किं वदनीयं किं सर्वं विस्मृतवान्। तं भावं वक्तुं न शक्यते। चित्रग्राह्या स्वीकृते चित्रे कैलासचैतन्यस्य किञ्चिदेव स्फुरणं प्राप्तम् इति पश्चात् ज्ञातवान्। यत्र अस्माकं मनसा नेत्राभ्याञ्च परिपूर्णावलोकनं नैव शक्यते तत्र यन्त्रस्य का गतिः। कैलासयात्रायां मन्दिराणि न सन्ति दीपज्योतिर्न दृश्यते महादेवस्य विग्रहं नास्ति मङ्गलवाद्यानि न सन्ति तथापि कथं भक्तानां मनसि तृप्तिर्जायते कथं ते कृतार्थतां प्राप्नुवन्ति इति गमनात् पूर्वं स्वल्पः संशयः मम मनसि आसीत् तादृशं सर्वं चिन्तनं कैलासकान्त्यां विलयं गतम्। इदम् अभौमरूपं शिवालयस्य नित्यं मनसि व्यक्तचित्रमिव तिष्ठतु इति महादेवं सम्प्रार्थ्य किञ्चित् समयानन्तरं ततः निर्गतवन्तः।।
प्रत्यागमनम्
प्रत्यागमनस्य समयो जातः। ततः वयं
दार्च्चन् (Darchen) इत्यस्मिन् स्थानं प्राप्य तत्र विश्रमं कृतवन्तः। अग्रिमे दिने पुनः मानससरोवरं प्राप्तवन्तः। पुनरेकवारं सरोवरतीरं गत्वा आस्वादनं कृतवन्तः। किन्तु पूजानन्तरं यथा मन्दिरस्य पिधानं भवति तथा कैलासः पूर्णतया मेघैः आच्छादित एवासीत्। पुनः कैलासदर्शनं न जातं तथापि एतावत् कालपर्यन्तं नयनाभिरामदर्शनेन भगवान् अनुगृहीतवान् इत्येव सर्वेषां चिन्तनम्। तावत् पर्यन्तं गत्वा दिनानि प्रतीक्षां कृत्वाऽपि कैलासम् अदृष्ट्वा यदाकदापि जनाः प्रतिगतवन्त इति ज्ञात्वा अस्माकं मनसि प्राप्तसौभाग्यमूल्यम् अनन्तं जातम्।।
प्रत्यागमनसमये वातावरणस्य सम्पूर्णं परिवर्तनं जातम्। अतिवेगेन वायुप्रवाहः वृष्टि एवं प्रतिकूलतानिमित्तं वायुयानं न प्राप्तम्। पुनः हिल्सा इत्यत्र रात्रिं यापितवन्तः। मम अग्रजस्य पूर्वनिर्देशानुसारं यात्रायां प्रतिदिनं मार्गबन्धुस्तोत्रं पठन्नासम्।
मार्गबन्धोः भगवतः शिवस्य अनुग्रहमिव अपरेदिने अहम् अपरश्च द्वौ पुरुषौ एव नेपाल् गुज् प्राप्तवन्तौ। पुनः शिष्टाः जनाः सिमिक्कोट् इत्यस्मिन् स्थाने स्थगिता अभवन्। अप्रतीक्षितघटनायाः कारणात् यात्रापद्धतिः परिवर्तिता जाता। २९ दिनाङ्के भूरिभागयात्रिकाः प्रत्यागता: तथापि चत्वारः जनाः तत्रैव प्रतिकूलवातावरणस्य कारणात् स्थगिता इत्यनेन वयं दुःखम् अनुभूतवन्तः। तेषां कार्यनिर्वहणार्थम् अस्माकं यात्रायाः सञ्चालकेषु एको महाशयः तत्रैव प्रतीक्षां कृतवान्। पञ्चदिनानाम् अनन्तरमेव ते प्रत्यागतवन्तः तदानीं शतशः तीर्थाटकाः मर्गे स्थगिताः जाताः भारते अस्याः घटनायाः वार्ता प्रसृता च सर्वे भीता अभवन्। पञ्चमे दिने सर्वेषां प्रार्थनायाः फलप्राप्तिर्जाता ते सुरक्षितं स्थानं प्राप्तवन्तः।
नेपाल् गञ्ज् तः काठ्मण्डुनगरम् आगत्य पशुपतिनाथक्षेत्रदर्शनानन्तरं सर्वे यात्रिकाः स्वगृहं गतवन्तः। एवं कैलासयात्रा एका अविस्मरणीया यात्रा जाता।
भगवतः शिवस्य अनुग्रहं नित्यं सर्वेषाम् उपरी भवतु इति पुनरपि कैलासनाथं सम्प्रार्थ्य सर्वं शिवार्पणं कृत्वा विरमामि।।
देवदेवं महादेवं कैलासेश्वरमव्ययम्।
भजामि गिरिजानाथं कोटिकन्दर्पभास्वरम्।।
केतनं तु चिदानन्दं नित्यं तिष्ठतु मानसे।
जीवनं मे निजं धन्यं दृष्ट्वा तावकमीश्वर!।।
धन्यवादः। नमो नमः।।
सुनीश् नम्बूतिरि
🙏🙏🙏
No comments:
Post a Comment