====================================
कथाशीर्षकः :- पञ्चताराङ्कितोपहारगृहस्य प्रथमानुभवः
लेखकः :- चिन्मयः फड़के, मृदुधान-अभियन्ता, पुणे
भ्रमणध्वनिक्रमाङ्कः :- ८८८८८८0३२६
====================================
उपहारगृहं तु सामान्यतः सर्वे नूतनानि वस्त्राणि धृत्वा एव गच्छति, न हि? किन्तु मया एकदा गृहान्तः परिधानार्हाणि वस्त्राणि धृत्वा पञ्चताराङ्कितोपहारगृहगमनस्य धार्ष्ट्यं कृतं यत् अधुना विवृणोमि।
अहं मुम्बईनगर्यां, सान्ताक्रूझक्षेत्रे न्यवसं 2007 तमे वर्षे। एकदा शुक्रवासरे रात्रौ अहं, मम सहप्रकोष्ठवासी सत्यप्रकाशः च समीपस्थे उपहारगृहे भोजनं कृतवतौ। भोजनं रात्रौ 10:30 समये समाप्तम्। सहसैव आवयोः उभयोरपि कुत्रचिदपि अटनस्य तीव्रा इच्छा भूता। मुम्बईनगरी तु अहर्निशं जागरितास्ति, तत्रत्या स्थानीयरेलयानसेवा मध्यरात्रिं यावत् सक्रियास्ति। अतः कस्मिन् अपि कोणे अटितुं सिद्धौ उभौ अपि।
आदौ आवां दक्षिणमुम्बईस्थितं मरीन् ड्राइव् अस्मिन् सागरतीरे गतौ। सागरसान्निध्ये स्वर्गसुखमनुभूय आवां भारतस्य प्रवेशद्वारं (gateway of India) प्रति प्रस्थितौ। तत्र किञ्चित् समयं यापितवतौ। तत्र पुरतः एव ताजसमूहस्य पञ्चताराङ्कितावासः स्थितोऽस्ति। मम मनसि तस्य अन्तर्स्थितम् उपहारगृहं गमनस्य इच्छा उत्पन्ना।
किन्तु आवयोः तु उचिता वेशभूषा नासीत्।
मया तु बाहूरहितं टीयुतकं (sleeveless T-shirt), पायजामा-उरूकं, हवाईपादरक्षे च धृताः आसन्। एतत् अटनं पूर्वनियोजितम् नासीत्, इत्यतः मया गृहात् प्रस्थाने वस्त्राणि न परिवृत्तानि। आवां ताजमध्ये प्रवेशं लप्स्यावहे वा न वा इति तु न अजानीव तदानीं, किन्तु किमपि रोमाञ्चं साधयितुं कृतनिर्धारौ आवां तत्र प्रविष्टवतौ।
स्वागतकक्षे उपहारगृहस्य विचारणा कृता। आवयोः वेषभूषां दृष्ट्वा तत्रत्य कर्मचारी उक्तवान्, "परितः तु नैकानि खाद्यालयानि सन्ति, पार्श्वस्थे पथे 'बडे मियाँ' खाद्यगृहं, किञ्चित् अग्रे गत्वा वामतः वलेताम्..........."। तस्य सम्भाषणे विच्छेदं कृत्वा सत्यप्रकाशः उक्तवान्, "आवां ताजस्य अन्तःस्थं खाद्यगृहं गन्तुकामौ, न तु 'बडे मियाँ' वा अन्यत्र"। आश्चर्यान्वितः सन् सः हस्ताङ्गुलिनिर्देशं कृत्वा उपहारगृहं प्रति गच्छत् मार्गं दर्शितवान्।
उपहारगृहं गत्वा तत्रत्यं सौन्दर्यं, तत्रत्यम् आढ्यं, महार्घैः आभरणैः आभूषिताः भित्तयः, छदौ लम्बमानः बृहद्दीपसञ्चयः (chandelier), सर्वत्र उच्चभ्रूणां ग्राहकानां सञ्चारः, एतत् सर्वं दृष्टवा तु नयने विस्फारिते जाते। एतत् स्वप्नं तु नास्ति इति विचारः मनसि आगतः। ताजपरिसरस्य सौन्दर्यरसम् आस्वादमानौ, रोमाञ्चककार्यसिद्ध्यर्थम् आनन्दोत्सवे तल्लीनौ, अनर्हाणि वस्त्राणि धृतौ आवां परिवेषकेण आहूतौ। झटिति आवाभ्यां 219 रुप्यकात्मकः दार्जिलिंङ्गचायः, 256 रुप्यकात्मकः चाकलेहस्य मिल्कशेक् आदिष्टौ (महार्घे उपहारगृहेऽस्मिन् एतौ द्वौ पदार्थौ एव आवयोः आर्थिकसामर्थ्यानुकूलः आस्ताम्)। शनैः शनैः पिबन्तौ आवां होरानन्तरं गृहं प्रतिनिवृत्तौ।
No comments:
Post a Comment