Thursday, July 5, 2018

Culture-Sanskrit story

ग्रामस्थे कूपे तिस्रः महिलाः जलपूरणं कुर्वत्यः आसन्।

तासु एकस्याः पुत्रः समीपतः गच्छन्नासीत्।

तं दृष्ट्वा तयोक्तम्,"एषः मम पुत्रः आङ्गमाध्यमपाठशालायां पठति।

अनन्तरं द्वितीयायाः पुत्रः समीपतः निरगच्छत्।

सा उक्तवती,"एषः मम पुत्रः सी.बी.एस्. सी. शालायां पठति।"


अत्रान्तरे तृतीयायाः पुत्रः तत्रागतः। तेन माता दृष्टा।


सः मातुः समीपमागत्य जलकलशं मातुः स्वीकृतवान् तथा च स्कंन्धे संस्थाप्य उक्तवान्,"मातः आगच्छतु,गृहं गच्छावः।"

तस्याः मातावदत्,"एषः मम पुत्रः।सः मराठीमाध्यमशालायां पठन्नस्ति।"

मातुः मुखे विद्यमानमानन्दं दृष्ट्वा महिलाद्वयम् अधोवदनं जातम्।


तात्पर्यम् ---
लक्षावधिरुप्यकाणि व्ययीकृत्यापि संस्काराः क्रेतुं न शक्यन्ते।


No comments:

Post a Comment