Thursday, July 5, 2018

Bollywood song in sanskrit

==================================

मूलगीतं :- बदन पेे सितारे लपेटे हुए

चित्रपटः :- प्रिन्स् (१९६९)

गीतानुवादकः :- चिन्मयः फड़के, पुणेनगरतः

गायकः :- श्रेयसः वाडी, ठाणेनगरतः

भ्रमणध्वनिक्रमाङ्कः :- ८८८८८८०३२६

==================================


प्रकाशमाणानि वस्त्राणि धृत्वा

मम प्रियतमे गच्छन्ती असि क्व

ईषन्निकटे आयासि चेत् प्रसीदेयम्

प्रकाशमाणानि वस्त्राणि धृत्वा

मम प्रियतमे गच्छन्ती असि क्व

ईषन्निकटे आयासि चेत् प्रसीदेयम् ।।धृ।।



अहं न भवामि यदि सुप्रिये

तर्हि कं दृष्ट्वा हाएएऽऽऽऽ त्वं ह्रेष्यसि

न द्रक्ष्यसि कदापि त्वं दर्पणे

विना मां प्रत्याहं त्वं तु भेष्यसि ।।1।।


सर्वाङ्गमण्डनात् मोदः प्राप्येत

यदा कोऽपि तं श्लाघमाणः मिलेत्

नो चेत् आभा एषा भवेत् निष्फला

त्वयि अनुरक्तः कोऽपि एकस्तु मिलेत् ।।2।।


प्रीत्यारधुना सीमा तु आक्रान्ता

उल्लासे देवीति त्वाम् उक्तं मया

लोको भवेत् रतः एतन्निर्णीतुं

योग्यं उक्तं वायोग्यं कथितं मया ।।3।।

No comments:

Post a Comment