Monday, June 25, 2018

Vyasa -Sanskrit essay

Courtesy: Smt.Bala Chiraavuri 
*व्यासदेवः*

कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रभुं।
को ह्यन्यः पुण्डरीकाक्षान्महाभारतकृद्भवेत्।।
   --पद्मपुराणम्।

   व्यसदेवस्य वैशिष्ट्यं वर्णयन् वैशम्पायनेन एवं प्रोक्तम्--" पुण्डरीकाक्षा अर्थात् अत्यधिकतपस्सम्पन्नाः सन्ति चेदपि केवलं पराशरात्मजः कृष्णद्वैपायन एव महाभारतं रचितुं समर्थः "इति।

  व्यास नाम पदवी अस्ति। न हि व्यक्तेः नाम। द्वापरे द्वापरे अपि तस्यां पदव्यां तल्लक्षणयुत तपस्सम्पन्नः आसीनो भवति। अस्मिन् द्वापरे सत्यवतीसुतः व्यासपदवीं अधिष्ठितः। 

व्यासं वशिष्ठनप्तारं शक्तेःपौत्रमकल्मषम्।
पराशरात्मजं वन्दे शुकतातं तपोनिधिम्।।

वशिष्ठस्य प्रपौत्रः,शक्तेः पौत्रः, पराशरमहर्षेः पुत्रः शुकदेवस्य पिता व्यासदेवः।

  दाशराजपुत्री मत्स्यगन्धी पूर्वजन्मनि पितृणां मानसपुत्री आसीत्।  सा एव कारणवशात् दाशराजेन सत्यवती नाम्ना पुत्री इव पालिता। सा प्रतिदिनमपि गंगायां नावां चालयति स्म। एकदा पराशरमहर्षिः तां मोहयित्वा तस्याः सङ्गमापेक्षया सत्यवतीं अपृच्छत्। कन्या कारणात् स्वशरीरस्य जुगुप्साजनित मत्स्यगन्धत्व कारणत् च सा न अङ्गीकृतवती। महर्षिः स्वतपोबलेन तस्याःशरीरे  पद्मगन्धत्वं योजनपर्यन्तमपि आयास्यतीति वरं दत्वा निकटं स्थितं द्वीपं प्रति तां नीत्वा अहन्येव  अन्धतमं कृत्वा तया सह संबभूव। सद्य एव सा गर्भं धृत्वा प्रसूता च। प्रसवानन्तरं स शिशुः क्षिप्रमेव यौवनं प्राप्तवान्। स एव महर्षिः व्यासमहाभागः। स मातापितृभ्यां नमस्कृत्य तपं कर्तुं जगाम।

व्यासदेवः वेदराशिं चतुर्धा विभाजितवान्। अतः वेदव्यास इति संबुध्यते।  अष्टादशपुराणानि व्यरचयत्। 

"अष्टादशपुराणानां वेदं समुपबृंहयेत्"-इति।
वेदार्थः अष्टादशपुराणज्ञानेनैव अवगतं भवति। 

स्त्रीशूद्रद्विजबन्धूनां त्रयी न श्रुतिगोचराः।
इति कारणेन कलौ अल्पधियान् जनान् उद्दिश्य च धर्मार्थकाममोक्षसम्बद्धानि सर्वशास्त्राणि निक्षिप्य महाभारतरचनां चकार। व्यसेन अप्रस्ताविता विषयाः केऽपि न सन्ति।
 
अतः"व्यासोच्चिष्टं जगत्सर्वं" इति आर्योक्तिः वर्तते।

 कलिकल्मषचित्तान् जनान् उद्धरणार्थं स महाभागः सर्वं लिखितवान्। ब्रह्मजिज्ञासुभ्यः ब्रह्मसूत्राणि लिलेख।
 तस्यशिष्याःपैलजैमिनीवैशम्पायनसुमन्तुरोमहर्षणाःआसन्। महर्षेः पुत्रः महाज्ञानी शुकदेवःआसीत्।

सप्तचिरंजीविषु व्यासोऽपि एकः। अधुनाऽपि उपासनया तेषां दर्शनकर्तारः भवन्तीति पगवद्पादानां ,कलिदासस्य ,वादिराजयतीनां दृष्न्तेभ्यः वयं ज्ञातुं शक्नुमः।

अचतुर्वदनो ब्रह्मा द्विबाहुरपरो हरिः।
अफाललोचनःशम्भुः भगवान् बादरायणः।।

    🙏🌷बाला...✍

No comments:

Post a Comment