Wednesday, June 6, 2018

Sanskrit story

 सरोवरम्  परितः क्रेबाख्यः एकं  लघुराज्यमासीत् । एकदा  अत्युष्णे ग्रीष्मकाले वृष्टिरेव न अवर्षत् । क्रेबस्य शुष्कसरोवरं एवं व्योम्नि अविद्यमानं कृष्णमेघं दृष्टवा प्रजाः उद्विग्नमनाः बभूवुः । ताः प्रजाः राजभवनं गत्वा जलरहितं जीवनं अशक्यं भवेदिति  राज्ञः सकाशं तीव्ररूपेण विज्ञापितवन्तः ।  "तस्मात्  कुत्रापि प्रदेशात्  प्रभूतं सलिलम् आनीय शुष्कजीवनात्  अस्मान्  रक्षतु"   इति प्रार्थनां कृतवन्तः ।  
अभिमुखीभूतापत्कालीनस्थितिम्  अनुसृत्य राजा पि जलान्वेषणाय चतुर्षु दिशासु चतुरः सेनापतीन् प्रैषयत् ।

 प्रथमः अर्कोदयदिशं द्वितीयः सूर्यास्तदिशं एवं  तृतीयश्च आतपे धूलौ च दक्षिणं  प्रति गतवन्तः । अन्ते चतुर्थः ध्रुवतारामन्वसरत् । ते सर्वे पि अधः उपरि दक्षिणतः वामतः सर्वत्र अहर्निशं परित्यक्तनिद्राभोजनाः तोयम्  अन्वैषयन्  , किन्तु वृथा। एको जलबिन्दुरपि न प्राप्तः । अन्ते नमितशिरसः रिक्तहस्ताः  त्रयः सेनापतयः क्रेबराज्यं  प्रत्यागताः । 
किन्तु उत्तरदिशं गतः सेनापतिः  यः राजानं निराशं नैव कर्तव्यमिति निश्चयेन अग्रे एव गतवान् । अन्ततः सः तत्र पर्वते शीतग्राममेकं प्राप्तवान् ।
 यदा सः पर्वतस्य उपत्यकायाम्   उपविष्टः आसीत्  तदा कापि वृद्धा आगत्य तस्य पार्श्वे उपविष्टा । 
सेनापतिः क्षितिजं दर्शयन्  अनावृष्ट्या ताडितसुन्दराज्यात् सः आगतः इति तां कथयित्वा सलिलम्  अन्वेष्टुं (मृगयितुं) तस्याः साहाय्यमपि प्रार्थितवान्। 
सा महिला इङगितेन सेनापतिं तां अनुसर्तुं  सूचयित्वा तथैव एकस्यां शैलगुहायां नीतवती। 
तत्र गुहायां स्थिता सा हिमशङकून्  दर्शयन्ती अवदत्  "अस्माकं देशे अपि जलं नास्त्येव। परन्तु एतत्  हिमशङकुखण्डं किञ्चित्  तव देशं आनय। इतः परं तव देशः कदापि  पिपासितः न स्थास्यति"  इति । 
सेनापतिः विशालं हिमखण्डम्  त्रोटयित्वा   स्वरथे स्थापयित्वा अतिवेगेन स्वगृहं प्रति अगच्छत् ।
यावत्  सः सभां प्राप्तः तावत्   विशालः हिमशङकुः द्रवीभूय लघुके हिमखण्डे अवशिष्टः आसीत् । सभायां केनापि कदापि हिमखण्डं न दृष्टमिति कारणेन सर्वे आश्चर्यचकितो भूत्वा तद्वस्तु जलबीजमेव स्यादिति निश्चितवन्तः। 

राजा जलबीजस्य शीघ्रं वपनार्थं आदिष्टवान् । गर्तं खनन्तः कृषकाः अत्यधिकं द्रवन्तं  हिमखण्डबीजं दृष्टवा झटिति तद्गर्ते बीजं अस्थापयन्। परन्तु तच्छादनात्  पूर्वमेव अदृश्यम्  जातम् । कृषकाः सर्वे  सम्भ्रान्ताः सचिन्ताः भीतभीताः जाताः। ते  तद्गर्तं गभीरं गभीरतरं रात्रिपर्यन्तं खनन्तः तद्विचित्रबघजम्  अन्वैषयन् ।
उषःकाले वपनप्रदेशं आगतः राजा तत्स्थान एव सुप्तान्  कृषकान्  दृष्टवा स्तम्भितः भूत्वा कौतूहलेन गर्तस्य अन्तर्भागे अपश्त्रत् । आश्चर्यचकितः सः आक्रोशम्  अकरोत् । 
जागृताः मम योग्यप्रजाः। जलबीजम्  अङकुरितम् । जलभरितः गर्तः दृश्यते।  एवमेव प्रथमः कूपः रचितः ।

No comments:

Post a Comment