Tuesday, June 5, 2018

Sanskrit joke

चतुष्पञ्चाशद्वर्षीया एका वृद्धा महिला हृदाघातम् अनुभूतवती। सा च वैद्यालयं प्रति नीता।

शल्योत्पीठिकायां सा मरणेन सदृशम् अनुभवं प्राप्तवती।

ईश्वरं दृष्ट्वा तया पृष्टम्,"मम मरणसमयः आगतः वा?"

ईश्वरः उक्तवान्,"न। इतोपि तव आयुषः ३४ वर्षाणि अवशिष्टानि।"

जगद्भानं पुनः प्राप्ते सति सा चिकित्सालये एव स्थित्वा वदनसमीकरणशल्यं (face-lift),मेदनिवारणशल्यं(liposuction) उदरपुटीकरणशल्यं (tummy-tuck) कारयित्वा तथा च केशवर्णमपि परिवर्त्य गृहं प्रतिगता।

गृहगमनसमये सा एकेन भारवाहकयानेन सह घट्टनेन सा मृता।

ईश्वरस्य पुरतः सा पुनरेकवारम् आनीता।सा ईश्वरं पृष्टवती," भवान् मम ३४ वर्षाणि अवशिष्टानीति उक्तवान्।तर्हि मां किमर्थम् भारवाहकापघातात् न रक्षितवान्?"

ईश्वरेणोक्तम्--

*"मया तु भवती नैव अभिज्ञाता।"*🤔🧐

🤪😜🙃😃😃😃😃😃😃😃

No comments:

Post a Comment