Wednesday, June 27, 2018

Sanskrit joke

🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻

प्रातः पतिः पत्नीम् उत्थापयति।

*पतिः* --प्रिये, उत्तिष्ठतु भवती।आवां योगप्रवर्गं गच्छावः।

*पत्नी* --किं भवान् माम् एतावतीं  स्थूलां भावयति वा?

*पतिः*-- तथा नास्ति भोः। योगः आरोग्यार्थं स्फूर्त्यर्थम् आवश्यकः।

*पत्नी*--तर्हि अहम् रोगिणी,अस्वस्था इति भवान् वक्तुमिच्छति?

*पतिः*--अस्तु।यदि भवती नैव उत्थातुमिच्छति तर्हि...

*पत्नी*--एतस्य कः अर्थः?भवान् माम् अलसाम् इति भावयति?

*पतिः*--पश्यतु अधुना..। एषः विपरीतावगमः ....।  

*पत्नी*--हे भगवन् !! तर्हि अहं बुद्धिहीना खलु? एतावन्ति वर्षाण्यतीतानि अस्माकं विवाहस्य ...तथापि भवान् वदति यत् अहं भवन्तं न जानामि ; एषः मम  विपरीतावगमः?

*पतिः* --तथा अहं कदा उक्तवान् भोः?

*पत्नी*--तर्हि अहं किम् असत्यवादिनी?

*पतिः* --भवतु नाम! प्रातः एव किमर्थं विवादः??

*पत्नी*--तर्हि अहमेव वादप्रिया?अहमेव?? भवान् मां कलहशीलां भावयति??

*पतिः*--अस्तु। अहं न गच्छाम्येव।  मास्तु योगः।

*पत्नी*--पश्यतु अधुना। भवान् गन्तुमेव नेच्छति स्म। केवलं मम मस्तके दोषारोपणम् इच्छति स्म।

*पतिः*--अस्तु मातः,अहमेकः एव गच्छामि। भवती निद्रातु सुखेन।

*पत्नी* --गच्छतु,गच्छतु एकः एव। तथा तु भवान् एकाकी एव आनन्दम् उपभुङ्क्ते। कदापि मम विचारः एव नास्ति।

*पतिः*-- मम मस्तकस्य घूर्णनम् आरब्धम्। मूर्छना आगता।

*पत्नी* --आगच्छेदेव। स्वार्थी अस्ति भवान्। केवलं स्वपरिमितमेव चिन्तयति।पत्न्याः आरोग्यस्य चिन्तैव नास्ति। घूर्णनं तु भवेदेव।

*पतिः* 😷🤐।
*पत्न्याः निद्रा* 😴।

*पतिः (स्वगतम्)*--मम कः प्रमादः जातः भोः?😔☹🤔

पतिभवनं नैव सुखदायकम्।

😃😃😃😂😂🤣🤣🤣🤣🤣

No comments:

Post a Comment