Wednesday, June 27, 2018

Eye brows of ambaal -Sanskrit essay-Periyavaa

Courtesy: Smt.Bala Chiraavuri 
*मातुर्भ्रूसौन्दर्यम्* 

 *भृवौ किंचिद्भुग्नेद्भुवनभयभङ्गव्यसननि* 
 *त्वदीये नेत्राभ्यां मधुकररुचिभ्यां धृतगुणम्।* 
 *धनुर्मध्ये सव्येतरगृहीतं रतिपतेः* 
 *प्रकोष्टे मुष्टौ च स्थगयति निगूढान्तरमुमे।।*

श्रीमद्भगवद्पादेन विरचितां सौन्दर्यलहर्यां सप्तचत्वारिंशत्तमो श्लोकोऽयम्। इदं मातुः भृकुटीवर्णनम् भवति। एकदा आचार्याः कैलासं अगमन्। तत्र ईश्वरानुग्रहेण मन्त्रभागं आपादमस्तकवर्णनयुतं  सौन्दर्यलहरी पञ्चलिङ्गानि अलभन्। प्रत्यागमनसमये नन्दिकेश्वरः आचार्याणां हस्तस्थितां सौन्दर्यलहरीं बलाद् गृहीतवन्तः। तस्मिन् मन्त्रभागयुताः एकचत्वारिंशति श्लोका एव अप्राप्ताःभगवद्पादेभ्यः। अवशिष्टाः वर्णनयुताः एकोनषष्टिश्लोकाः नन्दिकेश्वराणां हस्ते स्थिताः।
 अवशिष्टो भागः भगवद्पादेन पूरितः।तस्मिन्नपि मन्त्रार्थाःसन्ति। सकललोकानां भयनिवृत्तिकर्त्रीं भगवतीं वर्णितोऽयं श्लोकः।एतेन श्लोकेन भयमपनीतं भवति।

भयनिवृत्त्यर्थं भगवत्याः भृवौ ईषत् वक्रौ स्थितौ।तदर्थमेव "भुवनभयभङ्गव्यसनिनि" इति विशेषप्रयोगः कृतवन्तः। ते भृवौ धनुराकरदृशौ भवतः। भुग्नं नाम ईषत् वक्रमिति। मातुः नेत्रे आकर्णान्तं व्यापिते। सा विशालाक्षी आकर्णान्तविशाललोचनी भवति। नत्रे भ्रमरकान्तित्वेन राजेते। कस्याऽयं धनुः? रतिपतिः मन्मथस्य भवति।  सः सौन्दर्याधिपो भवति। तस्य धनुरपि तस्यसदृशैव सौन्दर्येण विराजमानो भवति। इक्षुधनुरयम्। धनोः ज्या धनोः ज्या षट्पदालिना शोभते। ' मौर्वी मधुकरमयी' इति सौन्दर्यलहर्यां अन्यत्र आचार्यवर्येणैव वर्णितम्।

आकाशे गर्जितमेघमाला आवृते सति मेघज्योतिर्जयते। तथा वृद्धाःअर्जुनदशनामानि कथयन्ति ।

"अर्जुनःफल्गुणःपार्थी किरीटिः श्वेतवाहनः।
बीभत्सो विजयःकृष्णो सव्यसाची धनञ्जयः।।" इति।

मेघज्योतिरेव इन्द्रधनुः। अतः मेघज्योति( इरंमदः) पतनसमये इन्द्रतनयस्य नामावल्योच्चारणं आवश्यकं भवति। असय अर्जुनस्य ' सव्यसाची' इत्यपि नामान्तरं वर्तते। सव्यसाची नाम वामहस्तात् बाणप्रहरणसमर्थः। साधारणतया धनुः वामहस्तेन गृहीत्वा दक्षिणहस्तेन बाणान् विसृजन्ति। अर्जनस्य अभ्यासः ततः विरुद्धमस्ति। मन्मथोऽपि सव्यसाची वदेव भाति। 'सव्येतरकर गृहीतं' इति पदप्रयोगः तं सूचयति।धनुर्ग्रहणे मुष्टौ किंचिद्भागः अन्तर्हितो भवति। प्रकोष्ठः अर्थात् मणिबन्धःइति। मातुः नासिका एव प्रकोष्ठः, भ्रुवोर्मध्ये अन्तर्हितं स्थानमेव मन्मथस्य मुष्टिः, भ्रुवौ धनुः , नयनयुगलमेव मौर्वी भवति। 

दक्षिणदेशे मधुवनं इति क्षेत्रं वर्तते। तमेव 'सन्निलम्' इत्यपि कथयन्ति। तस्मि क्षेत्रे मधुकराः महालिङ्गं अर्चयन्ति इति ऐतिह्यमस्ति। सम्प्रत्यपि तस्मिन् मन्दिरे मधुपूरितानि(मधुकोशाः) सन्ति। अत एव मधुवनमिति अभिधीयते।

कञ्चिपरमाचर्यवैभवात् स्वीकृत्य अनूदितम्....🙏

      🙏🌷बाला...✍

No comments:

Post a Comment