Friday, June 1, 2018

Sanskrit joke

*को भाग्यवान्?*

तरुणी ज्योतिषालयं गत्वा दैवज्ञं प्रति! 

श्रीमन्! धर्मसङ्गटे पतिताऽस्मि यतोऽहं तरुणद्वयं सुनिलं अनिलञ्च बहुस्निह्यामि। तौ उभौ अपि उत्तमौ तर्हि  कं स्वीकरिष्यामि ? तयोः मध्ये को भाग्यशाली अस्‍तीति  किञ्चित् विचिन्त्य सूचयतु। 

दैवज्ञः किञ्चित् कालं चिन्तयित्वा अवदत् चिन्तनेन सर्वं स्पष्टम् अवगतवान्। ध्रुवं सुनिल अतीव भाग्यवान् यतः भवती अनिलमेव विवाहं करिष्यति।। 

😃😃🤪😆

~ सुनीश् नम्बूतिरि

No comments:

Post a Comment