(मराठी जनानां कृते विनोदः मनसि आगतः।)
🙂🙂
पुणेनगर्याः एका महिला प्रसूतवत्यः गोः दुग्धेन निर्मितं मिष्टान्नं क्रीत्वा आनन्देन गृहम् आनीतवति।
तस्याः वैयाकरणः पतिः तु तद् मिष्टान्नं स्वीकृत्य झटिति जले क्षिप्तवान्।
"किमर्थं भोः?!!" इति क्रोधेन पृष्टवती सा भार्या।
पतिः वदति - "खरवसानयोर्विसर्जनीयः" इति।
🙂🙂
(खरवस = प्रसूतवत्यः गोः दुग्धेन निर्मितं मिष्टान्नम् इति मराठी भाषायाम्।
विसर्जन इत्यस्य प्रधान अर्थः जले विसर्जनं यथा गणपति विसर्जन इति मराठी भाषायाम्।
खरवसानयोर्विसर्जनीयः इति पाणिनेः सूत्रं ८.३.१५।)
—गणान्तरादुपलब्धम्।
No comments:
Post a Comment