Monday, June 4, 2018

Adishankara - Sanskrit essay

🕉शुक्रवासरः (20-04-18) वैशाखशुद्धपञ्चमी⛳
✍प्रस्तावविषयः-- श्रीशङ्कराचार्यः🙏

भूमिरियं ऋषिणां सज्जनानामाचार्याणां चास्ति। अत्र अनेके आचार्याः अभवन् येषां कर्मयोगैः संस्कृतिः समृद्धा जाता। तेषु आचार्येषु आदिशङ्कराचार्यः अन्यतमः। तस्याचार्यस्य जन्म तु केरलप्रदेशे अभवत् किन्तु सम्पूर्णभारतराष्ट्रं तस्य कर्तृत्वेन पवित्रमभवत्। स्वस्याल्पे आयुषि नैकानि महाकार्याणि कृतानि तेनाचार्येण। स अनेकभाष्यानि रचितवान्। विविधमतानुयायिभिः शास्त्रार्थान् कृतवान्। ज्ञान-कर्म-भक्तीनां विरलः सङ्गमः तस्मिन् आसीत्। तस्य स्तोत्राणि हृदयङ्गमानि सन्ति। प्रस्थानत्रयीभाष्यस्य भाषा शास्त्रीया अतः क्लिष्टा प्रतीयते किन्तु स्तोत्रस्य भाषा तु अतिसरला मधुरा च। अद्यावधि गेहे गेहे तस्य स्तोत्रगानं प्रचलति। सनातनधर्मस्योद्धारकं शङ्कराचार्यं नमामि वारं वारम्।
                       *- देवा बुधेलिया*

No comments:

Post a Comment